तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 93, कुल 345 में से
संदर्भ में पढ़ें६४ (१.२.१) तैत्तिरीयब्राह्मणम् भव । एतेषूक्तेषु सर्वेष्वपि मन्त्रेषूद्धन्तीत्याद्यनुवाकोक्तं तत्तद्ब्राह्मणमनु- संधेयम् । चि॒त्रिया॑दश्व॒त्थात्स॑म्भृ॑ता बृ॒हत्य॑: (७) । शरी॑रम॒भिस ँ॑ स्कृ॑ताः स्थ । प्र॒जाप॑तिना य॒ज्ञमु॒खेन॒ संमि॑ताः । ति॒स्रस्ति॒वृद्भि॑र्मिथु॒नाः प्र॒जात्यै॑ । कल्पः-“अथ ब्रह्मोदनशेष ँ स ँस्कृत्य तस्मिन्नाज्यशेषमानीय तस्मिँश्चित्रियाश्वत्थस्य तिस्रस्तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यस्तिभिकवत्यो विवर्तयन्ति- चित्रियादश्वत्थात्सम्भृता बृहत्यः शरीरमभिस ँस्कृताः स्थ प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्ति- वृद्भिर्मिथुनाः प्रजापत्यै” इति । ग्रामतडागादिचिह्नभूतः प्रसिद्धोऽ- श्वत्थश्चित्रियः । हे समिधो यूयं चित्रियादश्वत्थात्सम्भूता मया संपादिताः । अत एव बृहत्यो महत्यः पूज्यास्तथा शरीरमभिसंस्कृताः स्थ । चरुगते महत्याज्ये विवर्तनेन कृत्स्नं स्वशरीरमभिव्याप्य संस्कारयुक्ता भवत । किं च प्रजापतिरूपेण यज्ञपुरुषमुखेन प्रादेशमात्रेण संमितास्तुल्यास्तादृश्यस्तिस्रः समिधस्त्रिवृद्भिर्भविष्यदाहवनीयतादि- रूपेण त्रिगुणैरग्निभिः सह प्रजात्यै मिथुनाः प्रजोत्पादनार्थं मिथुनीभूताः। अ॒श्व॒त्थाद्ध॒व्य॒वाहि॑द्वि जा॒ताम् । अ॒ग्नेस्त॒नूं य॒ज्ञिया ँ॑ संभ॑रामि । शा॒न्तयो॑नि॒ ँ श॒मीग॑र्भ॒म् अ॒ग्नये॑ प्र॒जन॑यित॒वै । कल्पः-“अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञिया ँसंभरामि शान्तयोनि ँ शमीगर्भमग्नये प्रजनयितव इत्यायुर्मयि धेह्यायुर्यजमान इत्यरणी अभिमन्त्र्य” इति । आयुरित्यादिकः सौत्रो मन्त्रः । हव्यं वहतीति हव्यवाहोऽग्निस्तद्रूपोऽयमश्वत्थोऽश्वरूपं धृत्वाऽग्नेस्तस्मिन्वृक्षे प्रविश्य संवत्सरमवस्थितत्वात्तस्मादश्वत्थजातामुत्पन्नामरणिं संभरामि संपादयामि कीदृशमग्नेर्यज्ञिया तनूं लौकिकदाहपाकादिहेतुर्यज्ञिया तनूम्। अरणिरूपा तु या यज्ञार्हा शान्तयोनिं दाहप्रकाशाद्यनभिव्यक्त्या शान्तामग्न्युत्पादकत्वेन योनिश्श्व शमीगर्भं शमीवृक्षवेष्टिताश्वत्थ- वृक्षजन्यत्वेन शमीगर्भमीदृशीमरणिमग्नये प्रजनयितवेऽग्नेरुत्पादनार्थं संभरामीति पूर्वत्रान्वयः । ये अ॑श्व॒त्थः श॑मीग॒र्भः । आ॒रुरो॑ह॒ त्वे स चा॑ । तं त॑ हरामि॒ ब्रह्म॑ण (८) । य॒ज्ञियै॑: के॒तुभि॑: स॒ह ।