भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 94, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 94

तैत्तिरीयब्राह्मणम् (१.२.१) ६५ कल्पः-“यो अश्वत्थः शमीगर्भ आरुरोह त्वे स चा तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति” इति । अर्थक्रमादयं मन्त्रः पूर्वभावी द्रष्टव्यः । न ह्याहरणमन्तरेणा- भिमन्त्रयितुं शक्यते । रणे त्वे त्वयि निमित्तभूतायां सत्यां शमीगर्भोऽश्वत्थः स च तया शम्या समवेत आरुरोह समारुह्य प्रवृद्धस्तं तादृशमश्वत्थं ते त्वदर्थं ब्रह्मणा मन्त्रेण यज्ञियैः केतुभिर्यज्ञार्हैर्लाञ्छनै- रभिमन्त्रणादिवक्ष्यमाणसंस्कारैश्च सह हरामि यज्ञभूमावानयामि । यं त्वा॒ समभ॑रञ्जातवेदः । य॒था॒श॒री॒रं भू॒तेषु॒ न्य॑क्तम् । स संभृ॑तः सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रुं नौ॑ लो॒कमनु॑नेषि वि॒द्वान् । कल्पः-“यं त्वा समभरं जातवेदों यथाशरीरं भूतेषु न्यक्तं स संभृतः सोद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति संभृत्य निदधाति” इति । हे जातवेदो यं त्वा त्वामृत्विजः समभरन्सम्भारयुक्तं कृतवन्तः । कीदृशं त्वां भूतेषु प्राणिषु यथाशरीरं तत्तच्छरीरमनतिक्रम्य न्यक्तमौदर्याग्निरूपेण निगूढं स तादृशस्त्वं संभृतः संभारैर्युक्तः प्रजाभ्यः शिवः प्रजानां सुखप्रदो भूत्वा सीदेह देवयजनस्थानमुपविश। विद्वान्सर्वलोकाभिज्ञस्त्वं नोऽस्मदर्थमुरु विस्तीर्णं लोकमनु- नेष्यनुक्रमेण । विद्वान्सर्वलोकाभिज्ञस्त्वं नोऽस्मदर्थमुरुं विस्तीर्णं लोकामनुनेष्यनुक्रमेण संपादय । प्र वे॒धसे॑ क॒वये॑ मे॒ध्याय॑ । वचो॑ व॒न्दारु॑ वृष॒भाय॑ वृष्णे॑ । यतो॑ भ॒यमभ॑यं तन्नो॑ अस्तु । अव॑ दे॒वान्य॑जे हे॒ड्यान्॑ । कल्पः-“दर्व्या ब्रह्मोदनादुद्धृत्य-प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे यतो भयमभयं तन्नो अस्तवव देवान्यजे हेड्यान्निति जुहोति” इति । वेधसे कर्मद्वारा जगतो धात्रे कवये विदुषे सर्वज्ञाय मेध्याय यज्ञयोग्याय वृषभाय देवश्रेष्ठाय वृष्णे कामानां वर्षयित्रे वह्नये वन्दारु वचो नमस्कारशीलं वाक्यमस्माभिः प्राऽऽरब्धम् । प्राणिनां यतो यस्मान्नरकाद्भयं तत्तस्मान्नोऽस्माकमभयमस्तु । हेड्यान्क्रोधयोग्यान- स्मद्विरोधिनो देवानवयजे विनाशयामि । यदुक्तं समिदाधानप्रतिपादके ब्राह्मणे-“गायत्रीभिर्ब्राह्मणस्या- ऽऽदध्यात्” इति, तत्र प्रथममाह-