तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 90, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ६१ तत्पुष्कर॒स्याऽऽय॑त॒नाद्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न ँ हरामि । कल्पः-“यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् तत्पुष्करस्याऽऽयतनाद्धि जातं पर्णं पृथिव्याः प्रथन ँहरामीति पर्णम् ” (इति) । जगतः स्थावरजङ्गमरूपस्य प्रतिष्ठामाधारभूतामुर्वी लब्धकामः प्रजापतिः सरिरस्य मध्ये प्रलयकालीनजलस्यान्तर्यत्पुष्करपर्णमपश्यत् । तथा च पूर्वमाम्नातम्-“सोऽपश्यत्पुष्करपर्णं तिष्ठत् ” इति । तत्पुष्करस्य पर्णं हरामि । देवयजनभूमौ नयामि । कीदृशम् । आयतनाद्धि जलमध्ये निमग्नादाधारादुत्पन्नम् । हि शब्दो ब्राह्मणप्रसिद्धिं सूचयति । तञ्च ब्राह्मणं पूर्वमेवोक्तम्-“सोऽमन्यत । अस्ति वै तत् । यस्मिन्निदमधितिष्ठति ” इति तादृशाधारादिदमुत्पन्नम् । तथा पृथिव्याः प्रथमभूमेर्विस्तारस्थानम् । एतदपि पूर्वत्राऽऽम्नातम्-“तत्पुष्करपर्णे प्रथयत्” इति । याभि॒र्दृ॑ ँह॒ज्जग॑तः प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॒श्वज॑नस्य भ॒र्त्रीम् । ता न॑ः शि॒वाः शर्क॑राः सन्तु॒ सर्वा॑ः । कल्पः-“याभिर्दृ ँहज्जगतः प्रतिष्ठामूर्वीमिमां विश्वजनस्य भर्त्रीम्, ता नः शिवाः शर्कराः सन्तु सर्वा (इति शर्कराः)” इति । जगतः स्थावरादेः प्रतिष्ठामाश्रयभूतां विश्वजनस्य भर्त्रीं सस्यादिद्वारा सर्वजनस्य पोषयित्रीमिमामुर्वी याभिः शर्कराभिर्दृ ँ हद्दृढीकृतवान्प्रजापतिः । एतदपि पूर्वमुक्तम्- “ता ँ शर्कराभिर्दृ ँ हत्” इति । तास्तादृश्यः शर्कराः क्षुद्रपाषाणोऽस्मदर्थं सुखप्रदाः सन्तु । अ॒ग्नेरेत॑श्च॒न्द्र ँहिर॑ण्यम् । अ॒द्भ्यः संभू॑त॒ममृतं॑ प्र॒जासु॑ । तत्संभर॑न्नुत्त॒रतो॑ नि॒धाय॑ (४)। अ॒ति॒प्रय॑च्छन्दुरि॒तं त॑रेयम् । कल्पः-“अग्नेरेतश्चन्द्र ँ हिरण्यमद्द्भ्यः संभूतममृतं प्रजासु तत्संभरन्नुत्तरतो निधायातिप्रयच्छन्दुरितं तरेयमिति हिरण्यम्' इति । तद्धिरण्यं तत्संभरन्संपादयन्नग्नेर्बीभत्सानिवारणायोत्तरपार्श्वे तद्धिरण्यं निधाय द्वेष्याय रजतमतिप्रयच्छन्नहं दुरितं दुर्गतिं तरेयम् । अश्वो॑ रूपं कृ॒त्वा यदश्व॑त्थेऽति॑ष्ठः । सं॒व॒त्स॒रं दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्त॒मिह संभर॑न्तः । श॒तं जी॑वेम श॒रदः॑ सवी॑राः ।