तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.२.१) ६१ तत्पुष्कर॒स्याऽऽय॑त॒नाद्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न ँ हरामि । कल्पः-“यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् तत्पुष्करस्याऽऽयतनाद्धि जातं पर्णं पृथिव्याः प्रथन ँहरामीति पर्णम् ” (इति) । जगतः स्थावरजङ्गमरूपस्य प्रतिष्ठामाधारभूतामुर्वी लब्धकामः प्रजापतिः सरिरस्य मध्ये प्रलयकालीनजलस्यान्तर्यत्पुष्करपर्णमपश्यत् । तथा च पूर्वमाम्नातम्-“सोऽपश्यत्पुष्करपर्णं तिष्ठत् ” इति । तत्पुष्करस्य पर्णं हरामि । देवयजनभूमौ नयामि । कीदृशम् । आयतनाद्धि जलमध्ये निमग्नादाधारादुत्पन्नम् । हि शब्दो ब्राह्मणप्रसिद्धिं सूचयति । तञ्च ब्राह्मणं पूर्वमेवोक्तम्-“सोऽमन्यत । अस्ति वै तत् । यस्मिन्निदमधितिष्ठति ” इति तादृशाधारादिदमुत्पन्नम् । तथा पृथिव्याः प्रथमभूमेर्विस्तारस्थानम् । एतदपि पूर्वत्राऽऽम्नातम्-“तत्पुष्करपर्णे प्रथयत्” इति । याभि॒र्दृ॑ ँह॒ज्जग॑तः प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॒श्वज॑नस्य भ॒र्त्रीम् । ता न॑ः शि॒वाः शर्क॑राः सन्तु॒ सर्वा॑ः । कल्पः-“याभिर्दृ ँहज्जगतः प्रतिष्ठामूर्वीमिमां विश्वजनस्य भर्त्रीम्, ता नः शिवाः शर्कराः सन्तु सर्वा (इति शर्कराः)” इति । जगतः स्थावरादेः प्रतिष्ठामाश्रयभूतां विश्वजनस्य भर्त्रीं सस्यादिद्वारा सर्वजनस्य पोषयित्रीमिमामुर्वी याभिः शर्कराभिर्दृ ँ हद्दृढीकृतवान्प्रजापतिः । एतदपि पूर्वमुक्तम्- “ता ँ शर्कराभिर्दृ ँ हत्” इति । तास्तादृश्यः शर्कराः क्षुद्रपाषाणोऽस्मदर्थं सुखप्रदाः सन्तु । अ॒ग्नेरेत॑श्च॒न्द्र ँहिर॑ण्यम् । अ॒द्भ्यः संभू॑त॒ममृतं॑ प्र॒जासु॑ । तत्संभर॑न्नुत्त॒रतो॑ नि॒धाय॑ (४)। अ॒ति॒प्रय॑च्छन्दुरि॒तं त॑रेयम् । कल्पः-“अग्नेरेतश्चन्द्र ँ हिरण्यमद्द्भ्यः संभूतममृतं प्रजासु तत्संभरन्नुत्तरतो निधायातिप्रयच्छन्दुरितं तरेयमिति हिरण्यम्' इति । तद्धिरण्यं तत्संभरन्संपादयन्नग्नेर्बीभत्सानिवारणायोत्तरपार्श्वे तद्धिरण्यं निधाय द्वेष्याय रजतमतिप्रयच्छन्नहं दुरितं दुर्गतिं तरेयम् । अश्वो॑ रूपं कृ॒त्वा यदश्व॑त्थेऽति॑ष्ठः । सं॒व॒त्स॒रं दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्त॒मिह संभर॑न्तः । श॒तं जी॑वेम श॒रदः॑ सवी॑राः ।
कल्पः-“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय तन्ते न्यक्तमिह संभरन्तः, शतं जीवेम शरदः सवीरा इत्यश्वत्थम्” इति । हेऽग्ने त्वं यद्यदाऽ श्वः संस्तदीयं रूपं च सम्यक्कृत्वा देवेभ्यो निलाय ऽपक्रम्य संवत्सरं निरन्तरमश्वत्थे स्थितवानसि । तत्तदा ते त्वदीयं न्यक्तमश्वत्थे निगूढं तेजः सारमिह यज्ञभूमौ संभरन्तः संपादयन्तो वयं सवीराः पुत्रभृत्यसहिताः शतं शरदो जीवेम । ऊर्ज॑: पृथि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते शतव॑ल्शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्जं॒ मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा मंदेम । कल्पः-“ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम्” इति । हे वनस्पत उदुम्बरवृक्ष ऊर्जा रसनिमित्तात्तत्सिद्ध्यै पृथिव्या अध्युत्थितोऽसि भूमेरूपरि प्ररूढोऽसि । अतोऽस्माभिश्छिन्नोऽपि पुनः शतवल्शः शतशाखायुक्तो विरोह विशेषेण प्रादुर्भव । त्वयोपकृता वयमिषमन्नमूर्जं रसं च मदन्तो हर्षपुरःसरं प्राप्नुवन्तो रायस्पोषेण धनपुष्ट्या समीचीनेनान्नेन युक्ता मदेम पुनरपि हृष्या स्म । गा॒य॒त्रिया हि॒यमा॑नस्य॒ यत्ते॑ (५) पर्णमप॑तत्तुतीय॑स्यै दि॒वोऽधि॑ । सोयं प॒र्णः सोम॑प॒र्णाद्धि जा॒तः । ततो॑ हरामि सोम॑पीथस्याव॑रुद्ध्यै । दे॒वानां॑ ब्रह्म॒वादं॑ वद॑तां॒ यत् । उपा॑शृणोः सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तत्संभ॑र ँस्तदव॑रुन्धीय सा॒क्षात् । कल्पः-“गायत्रिया ह्रियमाणस्य यत्ते पर्णपतत्तृतीयस्यै दिवोऽधिसौऽयं पर्णः सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुद्ध्यै देवानां ब्रह्मवादं वदतां यदुपाशृणोः सुश्रवा वै श्रुतोऽसि ततो मामाविशतु ब्रह्मवर्चसं तत्संभरँस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम्” इति । हे सोम तृतीयस्यै दिवोऽधीमं लोकमारेभ्य गणनायां तृतीयस्य द्युलोकस्योपरिगायत्रिया ह्रियमाणस्य गायत्रीदेवतया बलादाह्रियमाणस्य ते तव यत्पर्णं भूमावपतत्सोऽयं पर्णः पलाशवृक्षः स च सोमपर्णाज्जात इति पर्णनामधेयेनैव प्रसिद्धः । ततस्तस्मात्कारणात्सोमपीथस्थस्यावरुद्ध्यै सोमपानस्य सिद्धये हरामि त्वामिहाऽऽनयामि । किं च पलाशवृक्षच्छायायामुपविश्य ब्रह्मवादं वदतामात्मविषयं संवादं कुर्वतां
तैत्तिरीयब्राह्मणम् (१.२.१) ६३ देवानां संबन्धं ब्रह्मवादं यद्यस्मात्कारणात्त्वमुपाशृणोः समीपे स्थित्वा श्रुतवानसि । अत एव सुश्रवा इति नाम्नैव त्वं श्रुतोऽसि प्रसिद्धोऽसि तत्तस्मात्कारणात्त्वदानयने प्रवृत्तं मां ब्रह्मवर्चसमाविशतु । तत्तादृशं पर्णाख्यं संभरन्नहं ब्रह्मवर्चसं साक्षादवरुन्धीय विलम्बमन्तरेण प्राप्नुयाम्। यया॑ ते सृ॒ष्टस्याग्ने॑ । हे॒तिमश॑मयत्प्र॒जाप॑तिः । ता मि॒मामप्र॑दाहाय (६) । शमी॒ ँ शान्त्यै॑ हरा॒म्य॒हम् । कल्पः-“यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिस्तामिमामप्रदाहाय शमी ँ शान्त्यै हराम्यहमिति शमीम्” इति । हे शमीवृक्ष ते त्वदीयया यया शाखया प्रजापतिः स्वसृष्टस्याग्नेर्हेतिं प्रदाहरूपमायुधमशमयत्तामिमां शमीं पूर्वस्य दाहस्य शान्त्या इत उर्ध्वमप्रदाहाय च हरामि यज्ञभूमावानयामि । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । वि॒कङ्क॑तं॒ भा आ॒र्च्छज्जा॑तवेदः । तया॑ भा॒सा संमि॑तः । उ॒रुं नौ॑ लो॒कमनु॑प्रभाहि । कल्पः-“यत्ते सृष्टस्य यतो विकङ्कतं भा आर्च्छज्जातवेदस्तया भासा संमित उरुं नो लोकमनुप्रभाहीति विकङ्कतम्' इति । हे जातवेदः प्रजापतिना सृष्टस्य यतः शीघ्रं गच्छतस्ते तव भा या दीप्तिर्विकङ्कतवृक्षमाच्छैत्प्राप्नोत्तया भासा संयुक्तः सन्नोऽस्मदर्थमुरुं विस्तीर्णं लोकं स्थानमनुप्रभाह्यनुक्रमेण प्रकाशय । यत्ते॑ ता॒न्तस्य॑ हृद॑य॒माच्छि॑न्द॒ञ्जात॑वेदः । म॒रुतो॒ऽद्- भिस्तम॑यि॒त्वा । ए॒तत्ते॒ तद॑श॒नेः संभ॑रामि । सा॒त्माग्ने॑ स॒हृद॑यो भवे॒ह । कल्पः-“यत्त तान्तस्य हृदयमाच्छिन्दञ्जातवेदो मरुतोऽद्भिरस्त- मयित्वैतत्ते तदशनेः संभरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य शकलानि त्वचो वा' इति । हे जातवेदः पुरा कदाचिन्मरुतो देवा विद्वेषादद्भिस्त्वदीयां तां ज्वालां तमयित्वा शमयित्वा म्लानिं प्रापय्य तान्तस्य म्लानिं प्राप्तस्य ते तव यद्धृदयमाच्छिन्दंस्तदेतत्ते हृदयमशनेः सकाशादहं संभरामि । छिन्नस्य हृदयस्याशनौ प्रविष्टत्वात् । ततः संभरणं युक्तम् । “साऽशनिरभवत्” इति ब्राह्मणं पुरोदाहृतम् । तस्य हृदयस्य मया संभृतत्त्वादिह देवयजने हेऽग्ने त्वं सात्मा सस्वरूपः सहृदयो हृदययुक्तश्च
६४ (१.२.१) तैत्तिरीयब्राह्मणम् भव । एतेषूक्तेषु सर्वेष्वपि मन्त्रेषूद्धन्तीत्याद्यनुवाकोक्तं तत्तद्ब्राह्मणमनु- संधेयम् । चि॒त्रिया॑दश्व॒त्थात्स॑म्भृ॑ता बृ॒हत्य॑: (७) । शरी॑रम॒भिस ँ॑ स्कृ॑ताः स्थ । प्र॒जाप॑तिना य॒ज्ञमु॒खेन॒ संमि॑ताः । ति॒स्रस्ति॒वृद्भि॑र्मिथु॒नाः प्र॒जात्यै॑ । कल्पः-“अथ ब्रह्मोदनशेष ँ स ँस्कृत्य तस्मिन्नाज्यशेषमानीय तस्मिँश्चित्रियाश्वत्थस्य तिस्रस्तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यस्तिभिकवत्यो विवर्तयन्ति- चित्रियादश्वत्थात्सम्भृता बृहत्यः शरीरमभिस ँस्कृताः स्थ प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्ति- वृद्भिर्मिथुनाः प्रजापत्यै” इति । ग्रामतडागादिचिह्नभूतः प्रसिद्धोऽ- श्वत्थश्चित्रियः । हे समिधो यूयं चित्रियादश्वत्थात्सम्भूता मया संपादिताः । अत एव बृहत्यो महत्यः पूज्यास्तथा शरीरमभिसंस्कृताः स्थ । चरुगते महत्याज्ये विवर्तनेन कृत्स्नं स्वशरीरमभिव्याप्य संस्कारयुक्ता भवत । किं च प्रजापतिरूपेण यज्ञपुरुषमुखेन प्रादेशमात्रेण संमितास्तुल्यास्तादृश्यस्तिस्रः समिधस्त्रिवृद्भिर्भविष्यदाहवनीयतादि- रूपेण त्रिगुणैरग्निभिः सह प्रजात्यै मिथुनाः प्रजोत्पादनार्थं मिथुनीभूताः। अ॒श्व॒त्थाद्ध॒व्य॒वाहि॑द्वि जा॒ताम् । अ॒ग्नेस्त॒नूं य॒ज्ञिया ँ॑ संभ॑रामि । शा॒न्तयो॑नि॒ ँ श॒मीग॑र्भ॒म् अ॒ग्नये॑ प्र॒जन॑यित॒वै । कल्पः-“अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञिया ँसंभरामि शान्तयोनि ँ शमीगर्भमग्नये प्रजनयितव इत्यायुर्मयि धेह्यायुर्यजमान इत्यरणी अभिमन्त्र्य” इति । आयुरित्यादिकः सौत्रो मन्त्रः । हव्यं वहतीति हव्यवाहोऽग्निस्तद्रूपोऽयमश्वत्थोऽश्वरूपं धृत्वाऽग्नेस्तस्मिन्वृक्षे प्रविश्य संवत्सरमवस्थितत्वात्तस्मादश्वत्थजातामुत्पन्नामरणिं संभरामि संपादयामि कीदृशमग्नेर्यज्ञिया तनूं लौकिकदाहपाकादिहेतुर्यज्ञिया तनूम्। अरणिरूपा तु या यज्ञार्हा शान्तयोनिं दाहप्रकाशाद्यनभिव्यक्त्या शान्तामग्न्युत्पादकत्वेन योनिश्श्व शमीगर्भं शमीवृक्षवेष्टिताश्वत्थ- वृक्षजन्यत्वेन शमीगर्भमीदृशीमरणिमग्नये प्रजनयितवेऽग्नेरुत्पादनार्थं संभरामीति पूर्वत्रान्वयः । ये अ॑श्व॒त्थः श॑मीग॒र्भः । आ॒रुरो॑ह॒ त्वे स चा॑ । तं त॑ हरामि॒ ब्रह्म॑ण (८) । य॒ज्ञियै॑: के॒तुभि॑: स॒ह ।
तैत्तिरीयब्राह्मणम् (१.२.१) ६५ कल्पः-“यो अश्वत्थः शमीगर्भ आरुरोह त्वे स चा तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति” इति । अर्थक्रमादयं मन्त्रः पूर्वभावी द्रष्टव्यः । न ह्याहरणमन्तरेणा- भिमन्त्रयितुं शक्यते । रणे त्वे त्वयि निमित्तभूतायां सत्यां शमीगर्भोऽश्वत्थः स च तया शम्या समवेत आरुरोह समारुह्य प्रवृद्धस्तं तादृशमश्वत्थं ते त्वदर्थं ब्रह्मणा मन्त्रेण यज्ञियैः केतुभिर्यज्ञार्हैर्लाञ्छनै- रभिमन्त्रणादिवक्ष्यमाणसंस्कारैश्च सह हरामि यज्ञभूमावानयामि । यं त्वा॒ समभ॑रञ्जातवेदः । य॒था॒श॒री॒रं भू॒तेषु॒ न्य॑क्तम् । स संभृ॑तः सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रुं नौ॑ लो॒कमनु॑नेषि वि॒द्वान् । कल्पः-“यं त्वा समभरं जातवेदों यथाशरीरं भूतेषु न्यक्तं स संभृतः सोद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति संभृत्य निदधाति” इति । हे जातवेदो यं त्वा त्वामृत्विजः समभरन्सम्भारयुक्तं कृतवन्तः । कीदृशं त्वां भूतेषु प्राणिषु यथाशरीरं तत्तच्छरीरमनतिक्रम्य न्यक्तमौदर्याग्निरूपेण निगूढं स तादृशस्त्वं संभृतः संभारैर्युक्तः प्रजाभ्यः शिवः प्रजानां सुखप्रदो भूत्वा सीदेह देवयजनस्थानमुपविश। विद्वान्सर्वलोकाभिज्ञस्त्वं नोऽस्मदर्थमुरु विस्तीर्णं लोकमनु- नेष्यनुक्रमेण । विद्वान्सर्वलोकाभिज्ञस्त्वं नोऽस्मदर्थमुरुं विस्तीर्णं लोकामनुनेष्यनुक्रमेण संपादय । प्र वे॒धसे॑ क॒वये॑ मे॒ध्याय॑ । वचो॑ व॒न्दारु॑ वृष॒भाय॑ वृष्णे॑ । यतो॑ भ॒यमभ॑यं तन्नो॑ अस्तु । अव॑ दे॒वान्य॑जे हे॒ड्यान्॑ । कल्पः-“दर्व्या ब्रह्मोदनादुद्धृत्य-प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे यतो भयमभयं तन्नो अस्तवव देवान्यजे हेड्यान्निति जुहोति” इति । वेधसे कर्मद्वारा जगतो धात्रे कवये विदुषे सर्वज्ञाय मेध्याय यज्ञयोग्याय वृषभाय देवश्रेष्ठाय वृष्णे कामानां वर्षयित्रे वह्नये वन्दारु वचो नमस्कारशीलं वाक्यमस्माभिः प्राऽऽरब्धम् । प्राणिनां यतो यस्मान्नरकाद्भयं तत्तस्मान्नोऽस्माकमभयमस्तु । हेड्यान्क्रोधयोग्यान- स्मद्विरोधिनो देवानवयजे विनाशयामि । यदुक्तं समिदाधानप्रतिपादके ब्राह्मणे-“गायत्रीभिर्ब्राह्मणस्या- ऽऽदध्यात्” इति, तत्र प्रथममाह-
६६ • (१.२.१) तैत्तिरीयब्राह्मणम् सु॒मिधा॒ऽग्निं दु॑वस्यत (९) घृ॒तैर्बो॑धय॒तार्ति॑थिम् । आऽस्मि॑न्-ह॒व्या जु॑होतन॒ इति॑ । हे ऋत्विजोऽनया प्रक्षिप्यमाणवा समिधाऽग्निं दुवस्यत प्रीणयत । अतिथिं वैश्वदेवान्ते समागतं ब्राह्मणमिव पूजनीयमेनमग्निं घृतैर्बोधयत दीपयत । अस्मिन्नग्नौ हव्या हवींष्याजुहोतन सर्वत्र जुहुत । अथ द्वितीयमाह- उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताची॑र्यन्तु हर्यत् । जु॒षस्व॑ सु॒मिधो॒ मम॑, इति॑ । हे हर्यत भजनीय वह्ने हविष्मतीर्ब्रह्मौदनारख्यहविष्मत्यो घृताचीर्घृताच्यो घृतसंपृक्ता एताः समिधस्त्वामुपयन्तु । मम समिधो जुषस्व प्रीत्या सेवस्व । अथ तृतीयमाह- तं त्वा॑ सु॒मिद्भि॑रङ्गिरः। घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य, इति॑ । हेऽङ्गिरोऽङ्गसौष्ठवयुक्त वह्ने तं तादृशं सर्वकर्मसु प्रसिद्धं त्वां समिद्भिर्घृतेन च वर्धयामसि वयं वर्धयामः । हे यविष्ठ्य युवतमाग्ने बृहच्छोचा महत्त्वं यथा भवति तथा दीप्यस्व । यदुक्तं ब्राह्मणे--“त्रिष्टुग्मी राजन्यस्य” इति तत्र प्रथममाह- स॒मिध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः (१०) । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो अ॒ग्निर्यज॑थाय दे॒वान्, इति॑ । अयमग्निर्देवान्यजत्राय यष्टुमुक्तुभिर्घृताक्ताभिः समिद्भिः समज्यते सम्यगभिव्यज्यते दीप्यते । कीदृशोऽग्निः सर्वैर्यजमानैः सर्वत्र समिध्यमानः प्रथमो नु सर्वासां देवतानां मध्येऽवश्यं प्रथमभावी । अत एवान्यत्राऽऽम्नातम्-“अग्निरग्रे प्रथमो देवतानाम्” इति । धर्मो विश्वस्य धारयिता विश्ववारोऽनिष्टं सर्वं निवारयितुं समर्थः । शोचींषि ज्वाला केशस्थानीया । यस्यासौ शोचिष्केशः । घृतेन निर्णिज्यते । निःशेषेण
तैत्तिरीयब्राह्मणम् (१.२.१) ६७
बोध्यते धूमरहितज्वालायुक्तः क्रियत इति घृतनिर्णिग् । पावकः सर्वस्य शोधकः । सुयज्ञः शोभनज्योतिष्टोमादियज्ञहेतुः । अथ द्वितीयमाह- घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैः समि॑द्धो घृ॒तम॒स्यान॑न्नम् । घृ॒तपृ॒षो॒स्त्व॒ा सरि॑तो वहन्ति । घृ॒तं पिब॑न्त्सुय॒र्जा य॑क्षि दे॒वान्, इति । अयमग्निर्घृतप्रतीकः प्रतीकशब्दो मुखवाची "मुखं प्रतीकम्" इति वाजसनेयश्रुतेः । घृतं प्रतीकं मुखं यस्यासौ घृतप्रतीकः । तत्तदाहुतिषु घृतं पिबतीत्यर्थः । घृतमेव योनिर्ज्वालोत्पत्तिकारणं यस्येति घृतयोनिः । अत एव घृतैः समिद्ध सम्यक्प्रज्वलितः । अन्नमप्यस्य घृतमेव । हेऽग्ने घृतपृषो घृतबिन्दुयुक्ताः सरितस्त्वां वहन्ति । घृतवाहिनीषु नदीषु वायुना घृतबिन्दवस्तीरे प्रसरन्ति तादृशीषु नदीषु प्लवमानस्त्वं क्रीडस्वेत्यर्थः । तथाविधस्त्वमस्मद्दत्तं घृतं पिबन्सुयजाः शोभनेन यज्ञेन देवान्यक्षि पूजय । अत तृतीयमाह- आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒गव्य॑म् । पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् (११), इति । हेऽग्ने हविषो जुषाणो हवींषि सेवमानो घृतप्रतीको घृतयोनिः सन्नायुर्दा एधि, अस्माकमायुष्प्रदो भव । तथा मधु मधुरं चारुगव्यं रमणीयं गोसम्बन्धिरसं घृतं पीत्वेमं यजमानमभिरक्षतात्सर्वतो रक्ष । यथा पिता पुत्रं रक्षति तद्वत् । यदुक्तं ब्राह्मणे-"जगतीभिर्वैश्यस्य " इति, तत्र प्रथममाह- त्वाम॑ग्ने स॒मिधा॒नं यवि॑ष्ठ । दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑म् । उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तम् । त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्व॑ति, इति । हे यविष्ठ युवतमाग्ने समिध्यमानं सम्यक्प्रकाशमानं त्वां देवाः सर्वे हव्यवाहं हविषां वोढारं दूतं चक्रिरे । अत एवान्यत्राऽऽम्नातम्-"अग्निर्देवानां दूत आसीत्" इति । उरुज्रयसमुरूणि
६८ (१.२.१) तैत्तिरीयब्राह्मणम् ज्रयांसि वैरिणामभिभवनानि यस्यासावुरुज्रयास्तादृशं घृतयोनिं घृतेनोत्पन्नज्वालमाहुतमाहुतिभिराराधितं त्वेषं दीप्यमानं त्वां चोदयन्वति विधायकवाक्ययुक्ते कर्मणि चक्षुर्दधिरे चक्षुः स्थानीयं कृतवन्तो देवाः । यथा लोके चक्षुषा रूपं स्पष्टं प्रकाश्यते तथा त्वया विधिवाक्योक्तानि कर्माणि संपाद्यन्त इत्यर्थः । अथ द्वितीयमाह- त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तेन॑ सु॒म्नायवः॑ सु॒ष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरु॒क्षितः॑ । उ॒रु ज्रयां॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे, इति । सुम्नं सुखमात्मन इच्छतीति सुम्नायव ऋत्विजस्ते प्रदिवे प्रकृष्टस्वर्गार्थं यद्वा प्रदिवः प्रकृष्टस्वर्गान्निमित्तभूतात् । हेऽग्ने त्वां घृतेनाऽऽहुतं सर्वत आराधितं सुषमिधा शोभनया समिधा समीधिरे सम्यगुद्दीपितवन्तः । स त्वमोषधीभिरोषध्युपलक्षिताभिर्वावृधानोऽयं वर्धमान उक्षितो घृतेनसिक्तः । पार्थिवा पार्थिवानि ज्रयांसि बाधकान्युरु वितिष्ठसेऽत्यन्तविशिष्टानि स्थापय । अथ तृतीयमाह - घृ॒तप्र॑तीकं च॒ ऋ॒तस्य॑ धू॒र्षदम्॑ । अ॒ग्निं मि॒त्रं न संमि॑धा॒न ऋ॑ञ्जते (१२) । इन्धा॑नो अ॒क्रो वि॒दथे॑षु दीद्य॑त् । शु॒क्रव॑र्णामु॒दु॑ नो यँसते॒ धिय॑म्, इति । हे ऋत्विग्यजमाना युष्मत्संबन्धिन ऋतस्य यज्ञस्य धूर्षदं धुरि सीदन्तं निर्वाहकमित्यर्थः । तादृशं घृतप्रतीकमग्निं समिधानो दीपयन्नयमध्वर्युर्मित्रं न मित्रमिव ऋञ्जतेऽलं करोति । इन्धानः स्वयं दीप्यमानोऽक्रः केनापिनाऽऽक्रान्तोऽयमग्निर्विदथेषु दीद्यदस्मान्प्रकाश- यन्नोऽस्मदीयां शुक्रवर्णी निर्मलरूपां धियं प्रज्ञामुदयंसतेऽत्यन्त- मुद्यच्छतेऽभिवर्धयतीत्यर्थः । प्र॒जा अ॑ग्ने॒ संवा॑सय । आशा॑श्च प॒शुभिः॑ स॒ह । राष्ट्रा॒ण्य॒स्मा आधै॑हि । यान्यासं॑न्त्सवि॒तुः स॒वे । कल्पः-“प्रजा अग्ने संवासयाऽऽशाश्च पशुभिः सह राष्ट्राण्यस्या आधेहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्माषमजं
तैत्तिरीयब्राह्मणम् (१.२.१) ६९ बध्नाति” इति । तत्राग्निशब्देनाजः संबोध्यते तस्याग्निसंबन्धित्वात् । “आग्नेयी वा एषा यदजा” इति श्रुत्यन्तरादग्निना सह प्रजापतिमुखादुत्पन्नत्वाच्च । हेऽग्नेऽजात्मन्प्रजा अस्मदीयाः पशुभिः सहाऽऽशा दिग्द्वर्तिनः प्राणिनश्च संवासय संवासनेन पालय । यानि राष्ट्राणि सवितुः सवे परमेश्वरस्याऽऽज्ञायां पूर्वमासंस्तानि राष्ट्राण्यस्मै यजमानायाऽऽधेहि सर्वतः संपादय । म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॑ एतं॒ धरु॑णे रयी॒णाम् । अ॒न्तर्व॑त्नी ज॒न्यं॑ जा॒तवे॑दस॒म् । अध्व॒राणां॑ जन॒यथः॑ पुरो॒गाम् ( १३) । कल्पः-“मही विश्पत्नी सदने धरुणे रयीणामन्तर्वत्नी जन्यं जातवेदमध्वराणां जनयथः पुरोगामित्यरणी आह्रियमाणे यजमानः प्रतीक्षते” इति । रयीणां धनानां धरुणे धारयित्र्यौ हेऽरणीमही महत्यौ पूजनीये विश्पत्नी प्रजानां पालयित्र्यपावर्वाची अभिमुखे सत्यावृतस्य सदने यज्ञस्य स्थान एतमागच्छतम् । अन्तर्वत्नी गर्भिण्यौ युवां जन्यं जनयितारमग्निं जातवेदसं जातानां वेदितारमध्वराणां पुरोगां यज्ञानामग्रगामिणं जनयथ उत्पादयतम् । आरो॑हतं दश॒तं ँश॑क्करी॒र्मम॑ । ऋ॒तेना॑ग्न॒ आयु॑षा॒ वर्च॑सा सह॑ । ज्योग्जीव॑न्त॒ उत्त॑रामुत्त॒रा ँ समा॑म् । दर्श॑महं पूर्ण॒मासं॑ य॒ज्ञं यथा॒ यजै॑ । कल्पः-“आरोहतं दशतं शक्करीर्मम ऋतेनाग्न आयुषा वर्चसा सह ज्योतिग्जीवन्त उत्तरामुत्तरा ँ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति हस्ताभ्यां प्रतिगृह्य” इति । हेऽरणी मम मदीयाः शक्तियुक्ता अङ्गुलयो याः सन्ति तासां दशतं दशसंख्यायुक्तवर्गमारोहतम् । हेऽग्नेऽरणिगर्भस्थ त्वमपि ऋतेन यज्ञेनाऽऽयुषाऽस्मदीयेन दीर्घायुष्येण वर्चसा बलेन सह दशतमारोह । वयं ज्योग्दीर्घकालं जीवन्त उत्तरामुत्तरां समामुत्तरोत्तर- संवत्सरे विच्छेदमन्तरेण दर्शं पूर्णमासं च यज्ञं यथा यजै यथा यजामि तथा त्वमारोहेति पूर्वत्रान्वयः । ऋ॒त्विय॑वती स्थो अ॒ग्निरैत॑सौ । गर्भं॑ दधाथां॒ ते वा॑म॒हं द॑दे । तत्स॒त्यं यद्वी॒रं बिभृ॑थः । वीरं॑ ज॒नयि॑ष्यथः॑ । ते
७० (१.२.१) तैत्तिरीयब्राह्मणम् मत्प्रा॒तः प्र॒जनि॑ष्येथे । ते मा॒ प्रजा॑ते प्र॒जनयि॑ष्यथः (१४) । प्र॒जया॑ प॒शुभि॒र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के । कल्पः-“ऋत्वियवती स्थो अग्नेरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथस्ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते यजमानः” इति । हेऽरणी युवामृत्वियवती ऋतुः प्राप्तोऽस्येत्यृत्वियो योनिः स ययोररण्योस्ते ऋत्वियवती प्रजननाभिमुखगर्भवत्यौ । अग्नेरेवरेतोरूपेण गर्भो ययोस्ते अग्नेरेतसौ तादृश्यौ स्थो भवथः । तादृश्यौ युवां गर्भं दधाथां गर्भं पोषयतम् । ते तादृश्यौ वां युवामहं दद आदत्तवानस्मि । ते युवा वीरं कर्मसु शूरं पुत्रं बिभृथो धारयथः । अतो वीरमेव जनयिष्यथ इति यत्तत्सत्यं न तु मिथ्या । ये युवा मन्मत्तो निमित्तभूतात्प्रातः प्रजनिष्येथे परेद्युः प्रातःकाले सर्वथा वह्निमुत्पादयिष्यथः बह्निमुत्पादितवत्यौ ते युवामपि प्रजनयिष्यथः प्रजनयितारं करिष्यथः । अतः स्वर्गे लोके प्रजया पशुभिर्ब्रह्मवर्चसेन च युक्तो भविष्यामीति शेषः । अनृ॑तात्स॒त्यमुपै॑मि । मानु॑षाद्दै॒व्यमुपै॑मि । दैवीं॒ वाचं॑ यच्छामि । कल्पः-“अथ यजमानो व्रतमुपैति वाचं यच्छति- अनृतात्सत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामि” इति । अनृतादग्निराहित्यलक्षणात्सत्यमग्निमत्वलक्षणमुपैमि प्राप्नोमि । मानुषान्मन्ुष्याचरणाद्दैव्यं देवयोग्यमाचरणमुपैमि प्राप्नोमि । दैवीं देवसंबन्धिनीं वाचं यच्छामि नियतां करोमि । संस्कृतभाषयैव व्यवहरामीत्यर्थः । शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो॑र्लो॒कयो॒र्ऋद्ध्वा॑ । अति॑ मृ॒त्युं त॑राम्य॒हम् । कल्पः-“शल्कैरेता ँ रात्रिमेतमग्निमिन्धानआस्ते- शल्कैरग्निमिन्धान उभौ लोकौ सनेमहमुभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमित्येतया” इति । अहं शल्कैः काष्ठलेशैरग्निमिन्धानः प्रज्वालयन्नुभौ लोकावेतल्लोकपरलोकौ सनें संजयेयम् । तयोरुभयोर्लोकयोर्ऋद्ध्वा समृद्धो भूत्वा मृत्युमहमतिशयेन तरामि ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७१ जा॒तवे॑दो॒ भुव॑नस्य॒ रेत॑: । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्जनि॒ष्यते॑ (१५) । अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह॑म् । श॒मी॒गर्भा॒ज्जन॑य॒न्यो म॑यो॒भूः । कल्पः-“तस्मिन्नुपव्युषमरणी निष्टपति-जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यतेऽग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूरयं ते योनिर्ऋत्विय इत्येताभ्याम्' द्वितीयमन्त्रः संहितायामपि पठितत्वात्सूत्रकारेण सर्वोऽपि न पठितः । हे जातवेदो ब्राह्मौदनिकाग्ने भुवनस्य रेतः सर्वलोकस्य कारणभूतमाघातव्याग्निरूपमिह सिञ्चानयो- ररण्योर्निषिञ्च । यद्रेतस्तपसोऽस्मात्संतापाज्जनिष्यत उत्पत्स्यते तादृशं रेतः सिञ्चेति पूर्वत्रान्वयः। योऽग्निराधातव्यो मयोभूः सुखस्य भावयिता हव्यवाहं हविषो वोढारं शमीगर्भादरणीरूपादश्वत्थाज्जनयञ्जनयितुकामो निषिञ्चेति पूर्वत्रान्वयः । द्वितीयमन्त्रपाठस्तु- अ॒यं ते॒ योनि॑र्ऋ॒त्विय॑: । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम्, इति । हे जनयितव्याग्नेऽयमरणियद्वयसंघस्ते . तवोत्पत्त्यर्थमृत्वियों योनिर्ऋतुयुक्तमुत्पत्तिस्थानं यतो योनेर्जातस्त्वमरोचथा लोके दीप्तिमानासीः । योनिमेतदरणीरूपं जानन्नारोह । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय ।. कल्पः-“अपेत वीतेति गार्हपत्यायतनमुद्धत्य" इति । पाठस्तु- अपै॑त॒ वी॑त॒ वि च॑ सर्पतातः । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो व॒साने॑ पृथि॒व्याः । अक्र॒न्निमं॑ पि॒तरो॑ लो॒कम॑स्मै (१६), इति । यमपुरुषाः संबोध्यन्ते । “यममेव देवयजनमस्यै निर्याच्य " इत्येतन्मन्त्रब्राह्मणे समाम्नानात् । हे यमपुरुषा अत्रास्मिन्देशे पुराणा ये यूयं स्थ नूतनाश्च ये यूयं स्थ ते सर्वेऽप्यतो देशादपेतापगच्छत। वीर परस्परं वियुक्ता गच्छत । पुनरपि वि दूरं सर्पत । यमो राजेदमवस्थानमदाद्यजमानाय दत्तवान् । पितरश्चेमं लोकं स्थानविशेषमस्मै यजमानार्थमक्रन्कृतवन्तः ।
७२ (१.२.१) तैत्तिरीयब्राह्मणम् कल्पः-“सिकतानामर्धं द्वैधं विभज्यार्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेरर्धं त्रेधं विभज्य पूर्वेष्टेनेव कल्पेन सर्वान्पार्थिवान्निवपति । अग्नेर्भस्मासीति सिकता निवपति” इति । पाठस्तु - अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि, इति । हे सिकतेऽग्नेर्भस्म भासमानहेतुस्त्वमसि तथाऽग्ने पुरीषं पूरणहेतुस्त्वमसि । कल्पः-“संज्ञानमित्यूषांस्तानिवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति” इति । पाठस्तु- सं॒ज्ञान॑मसि काम॒धरण॑म् । मयि॑ 'ते काम॒धरणं॑ भूयात्, इति । हे ऊष संज्ञानं सम्यग्ज्ञानहेतुः कामधरणं धारणहेतुश्च त्वमसि । ते त्वदीयं यत्कामधारणं सामर्थ्यं तन्मय्यपि भूयात् । सं वः॑ सृजामि॒ हृद॑यानि । सा ँ सृ॑ष्टं मनो॑ अस्तु वः । स ँसृ॑ष्टः प्रा॒णो अ॑स्तु वः । कल्पः-“सं या वः प्रियास्तनुव इत्येषा । संवः सृजामि हृदयानि स ँ सृष्टं मनो अस्तु वः स ँसृष्टः प्राणो अस्तु व इत्येताभ्यां बानस्पत्यान्सँसृज्य सिकतावद्विभज्य निवपति” इति । अत्र “सं वः सृजामि” इति मन्त्रः पूर्वमाम्नातः । हे वानस्पत्यसंभारा वो युष्माकं हृदयानि संसृजामि परस्परमनुरक्तानि करोमि । तथा वो युष्माकं मनो वचश्च संसृष्टमस्तु । हृदयवाक्येन परस्परस्नेहोऽपि विवक्षितः । मनोवाक्येन कार्यैकैकमत्यम् । तथा वो युष्माकं प्राणश्च संसृष्टोऽस्तु । अनेनैकविद्या प्रवृत्तिर्विवक्षिता । “सं या वः” इति मन्त्रस्य संहितायामाम्नातत्वात्प्रतीकमात्रं सूत्रे दर्शितम् । इह तु सर्वोऽप्येवमाम्नातः- सं या वः॑ प्रि॒यास्तनुवः॑ । सं प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ सं प्रियः॑ सं प्रि॒यास्त॒नुवो॒ मम॑ (१७) इति । हे वानस्पत्यसंभारा वो युष्माकं याः प्रियास्तनुवस्ताः संसृज्यन्तामेकस्मिन्नैव कार्ये प्रवर्तन्ताम् । तथा वो युष्माकं प्रियाणि
तैत्तिरीयब्राह्मणम् (१.२.१) ७३ हृदयानि च संसृज्यन्ताम् । तथा वो युष्माकं प्रिय आत्मा जीवश्च संसृज्यताम् । तथा ममप्रियास्तनुवोऽपि संसृज्यन्ताम् । एकस्मिन्कार्ये प्रवर्त्तन्ताम् । ऋत्विग्भिः सह शरीरं बहुत्वम् । कल्पः-“क्लृप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते- कल्पेतां द्यावापृथिवी येऽग्नय समनसः” इति । तत्र क्लृप्त्यभिधायिकाया ऋचः पाठस्तु- कल्पै॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नयः॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः, इति । द्यावापृथिव्यादयः सर्वे मम ज्यैष्ठयायोत्तमफलसिद्धये सव्रता व्रतेन कर्मणा युक्ताः सन्तः । स्वस्वव्यापारक्षमा भवन्तु । सामनस्याभिधायिकाया ऋचः पाठस्तु- येऽग्नयः॒ सम॑नसः । अ॒न्तरा द्यावा॑पृथि॒वी । वा॒स॒न्ति॒कावृ॒तू अ॒भिकल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भिसंवि॑शन्तु, इति । हेऽग्ने द्यावापृथिव्योर्मध्ये त्वया सह समानमनस्काऽग्नयः सन्ति ते सर्वेऽपि वासन्तिकावृतू ऋत्ववयवौ वासन्तिकमासौ चैत्रवैशाखाख्यावभिकल्पमानाः सर्वतः संपादयन्तस्तामभितः संविशन्तु । यथा देवा इन्द्रमभिसं विशन्ति तद्वत् । अनन्तरमन्त्रस्तु गार्हपत्याधानमन्त्राणां मध्ये सूत्रकारेणोदाहृतः । पाठस्तु- दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना (१८) । अ॒न्तरि॑क्षस्य॒ पोषे॑ण । सर्व॑पशु॒माद॑धे, इति । हे गार्हपत्य द्युलोकस्य यद्वीर्यं पृथिव्याश्च यो ऽन्तरिक्षस्य यत्पोषं सामर्थ्यं तैः सर्वैरपि सर्वपशुप्रदानसमर्थं त्वामिहायतन आदधे । अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्त्रेमा॑णं त॒रणिं॑ वी॒ळुज॑म्भम् । दश॒ स्वसा॑रो॒ अग्रु॑वः । समीचीः॑ । पुमां॑ ँ सं जा॒तम॑भिसं॒रभ॑न्ताम् ।
७४ (१.२.१) तैत्तिरीयब्राह्मणम् कल्पः-“अजीजन्मृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भं दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसँरभन्तामिति जातमञ्जलिनाऽभिगृह्य” इति मर्त्यासो मनुष्यऋत्विजोऽमृतं मरणरहितमग्निं देवमजीजनन्नुत्पादितवन्तः · । कीदृशमग्नि- मस्रेमाणमगम्यमशोषणीयं वा । स्त्रिवु गतिशोषणयोरिति धातुः तरणिं दुःखेभ्यस्तारकं वीळुजम्भं दृढदन्तमूलमग्रुवोऽङ्गुलयस्ताश्च शरीरेण सहोत्पन्नत्वात्स्वसारो भगिनीसमानाः । दशसंख्याकास्ता अङ्गुलयः समीचीरनुकूला भूत्वा जातमभिरूपं पुमांसमभिसंरभन्तामभितः संगृह्णन्तु । प्रजाप॑तेस्त्वा प्रा॒णेना॒भिप्रा॑णिमि । पू॒ष्णः पोषे॑ण॒ मह्य॑म् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒त ँ॑शरद्भ्य॒ आयु॑षे॒ वर्च॑से (१९)। जी॒वात्वै॑ पु॒ण्या॑य । कल्पः-“जातं यजमानोऽभिप्राणिति-प्रजापतेस्त्वा प्राणेनाभि- प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शत ँ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय” इति । हेऽग्ने प्रजापतेः प्राणेन प्राणवायुना त्वामभिलक्ष्य प्राणिमि श्वासं करोमि । तथा पूष्णो देवस्य पोषेण सामर्थ्येन वाऽभिप्राणिमि । किमर्थं मह्यं मम शतशारदाय दीर्घायुत्वाय शतसंवत्सरपरिमितं यद्दीर्घायुस्तत्सिद्धये । किंच, शतं शरद्भ्यः शतसंख्याकेभ्यः संवत्सरेभ्य ऊर्ध्वमप्यायुःसिद्धये वर्चसे बलाय जीवात्वै जीवनौषधाय पुण्याय सुकृतसिद्धये च । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑र॒स्मि । ममै॑व॒ सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लौ॑कृ॒ज्वातवेदः । कल्पः-“अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोकृजातवेद इत्याधीयमानमनुमन्त्रयते यजमानः” इति । ह आहवनीयाग्नेऽहं त्वत्तो हेतोरस्मि । यदा त्वमासीस्तदानीमहमस्मि । यदा तु त्वं नाऽऽसीस्तदानीं विद्यमानोऽप्यहं निष्प्रयोजनत्वेन नास्मि । त्वं च मदसि मत्तो हेतोर्जायसे । एतच्च प्रत्यक्षम् । एवमुक्तप्रकारेण मम योनिः कारणं त्वमसि । तवापि योनिः कारणमहमस्मि । तस्मान्ममैव बन्धुः सन्मदीयानि हव्यानि वह । हे जातवेदो यथा लोके पुत्रः पित्रे लोककृत्पुण्यलोकसंपादको भवति तद्वदतिस्नेहेन मम लोककृद्भव ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७५ अनन्तरमन्त्रौ गार्हपत्याधानमन्त्रेषु सूत्रकृतोदाहृतः । पाठस्तु- प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्नादम॒न्नाद्या॑य । गो॒प्तारं॑ गुप्त्यै॑, इति । हे गार्हपत्य प्राणेऽस्मदीये निमित्तभूते सति तद्रक्षार्थममृतं त्वामादधामि । ममान्नाद्यसिद्धयेऽन्नादं मम गुप्त्यै रक्षणसिद्धये गोप्तारं त्वाऽऽ दधामि । सु॒गार्ह॑पत्यो वि॒दह॒न्नरा॑तीः । उ॒षसः॑ श्रेय॑सीः श्रेय॑सी॒र्दध॑त् (२०) । अग्ने॑ स॒पत्नँ॑ अप॒बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । कल्पः-‘‘सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधदग्ने सपत्नाँ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानम- भिमन्त्रयते यजमानः’’ इति । शोभनो गार्हपत्योऽयमग्निररातीद्वेषिणो विशेषेण दधन्नुषसो दिवसाञ्छ्रेयसीः श्रेयसीर्दधदुत्तरोत्तरश्रेष्ठान्कुर्वन्वर्तते । हेऽग्ने गार्हपत्य सपत्नास्मदीयाञ्शत्रूनपबाधमानः पीडयन्ध्नन्पुष्टिमन्नरसं चास्मासु संपादय । इ॒मा उ॒ मामुप॑तिष्ठन्तु रा॒यः । आ॒भिः प्र॒जाभि॑रि॒ह संव॑सेय । इ॒हो इडा॒ तिष्ठ॑तु वि॒श्वरू॑पी । मध्ये॒ वसो॑र्दीदिहि जात॑वेदः । कल्पः-‘‘इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेयेहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति’’ इति । इमा उ रायो लोके दृश्यमानानि सर्वाण्यपि धनानि मामुपतिष्ठन्तु प्राप्नुवन्तु । आभिः पुत्रपौत्रादिभिः प्रजाभिः सहेहास्मिञ्जन्मनि संवसेय सम्यक् तिष्ठामि । किंचेहेहैव जन्मनि विश्वरूपी महिष्याद्यनेकपशुरूपयुक्तेडा गौस्तिष्ठतु । हे जातवेदस्त्वस्मदीयस्य वसोर्मध्ये स्वामित्वेन स्थित्वा दीदिहि दीप्यस्व । ओर्ज॑से बला॑य त्वोद्य॑च्छे । वृष्णे॒ शुष्मा॑याऽऽयु॑षे वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्तै॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः (२१) ।
७६ (१.२.१) तैत्तिरीयब्राह्मणम् यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पु॒ष्ट्या॑ ते मनु॒ष्ये॑षु पप्र॒थे तया॑ । नो अग्ने जु॒षमा॑ण ऐहि॑ । कल्पः- "गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीप्य सिक्तश्चोपय- मनीरुपकल्पयते तमुद्यच्छति-ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायाऽऽयुषेवर्चसे सपत्नतूरसि वृत्रतूर्यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषुपविष्टः पुष्ट्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि" इति। हेऽग्नेत्वामोजः प्रभृतिसिद्ध्यर्थमुद्यच्छे ओजो बलहेतुरष्टमो धातुः । बलं शरीरसामर्थ्यम् । वृषञ्शब्दः सेचनसामर्थ्यवाची । शुष्माशब्दोऽत्र सहकारिसंपादितां शक्तिमाचष्टे । आयुः प्रसिद्धम् । वर्चः कान्तिः । हेऽग्ने त्वं सपत्नतूरसि वैरिहिंसकोऽसि । तथा वृत्रतूर्धर्मबुद्धंरावकाणां पापानां हिंसकोऽपि सोऽयमेको मन्त्रः। हेऽग्ने देवेषु मध्ये कर्मफलभूतः स्वर्गरूपो यस्ते महिमा पशुषु क्षीरादिहविः स्वरूपंण प्रविष्टो यस्तवाऽऽत्माऽत्यन्तप्रियः पदार्थो मनुष्येषूराग्निजनिता या त्वदीया पुष्टिः पप्रथे प्रसिद्धा वर्तते तया पुष्ट्या तदुपलक्षितस्वर्गक्षीराभ्यां च नोऽस्माञ्जुषमाण एहि । असौ द्वितीयो मन्त्रः- दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । वाता॑त्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदः संब॒भूर्थ॑ । ततो॑ नो अग्ने जु॒षमा॑ण एहि॑, इति । दिवः पृथिव्या अन्तरिक्षाद्धोपरि वातात्पशुभ्य ओषधिभ्यश्चोपरि तथा यत्र यत्र देशविशेषे हे जातवेदः संभूयोत्पन्नोऽसि । हेऽग्ने ततः सर्वस्मात्स्थानान्नोऽस्माञ्जुषमाण एहि । अनन्तरभाविनस्त्रयो मन्त्राः प्रणयनकाले गमनार्थाः। तत्र प्रथममाह- प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अग्ने॑रग्ने पुरो अ॒ग्निर्भ॑वे॒ह । विश्वा॒ आशा॑ दीद्या॒नो वि॑भाहि (२२) । ऊर्जं॑ नो धेहि॒ द्विप॑दे॒ चतु॑ष्पदे, इति । हेऽग्ने प्राचीं पूर्वा प्रदिशं प्रकृष्टां दिशमनुलक्ष्य विद्वान्मार्गाभिज्ञः प्रेहि प्रकर्षण गच्छ । अग्नेर्गार्हपत्यस्येह पुरोऽग्निर्भवास्मिन्देवयजने पूर्वदिग्वर्ती वह्निर्भव । दीद्यानः स्वयं प्रकाशमानो विश्वा आशा विभाहि सर्वा दिशः प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे
तैत्तिरीयब्राह्मणम् (१.२.१) ७७ पशवे चोर्जं रसं धेहि संपादय । अयं मन्त्रो "धर्मः शिरः" इत्यनुवाकेऽपि समाम्नातः । प्रयोजनं तु द्विराम्नातस्य सूत्रान्तरे द्रष्टव्यम् । अथ द्वितीयमाह- अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वह॑ानि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पु॒रुत्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आर्त॑तान, इति । अयमग्निरुपसामग्रं प्राप्तोऽन्वख्यदनुक्रमेण प्रकाशितवान् । प्रथमो देवेषु मुख्योऽयं जातवेदा अहानि दिवसानन्वख्यत् । किंच सूर्यस्य पुरुत्रा सर्वानपि रश्मीनन्वख्यत् । तथा द्यावापृथिव्यावनुक्रमेणाऽऽ ततान् सर्वतो व्याप्तवान् । यद्यप्ययं मन्त्रो नाऽऽपस्तम्बेन विनियुक्तस्तथाऽपि सूत्रान्तरानुसारेणात्र विनियोगो द्रष्टव्यः । अथ तृतीयमाह- वि॒क्रम॑स्व म॒हाँ ँअ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृ॑हि, इति । हेऽग्ने विक्रमस्वानिष्टनिवारणे पराक्रमं कुरु । त्वं महानस्यधिक शक्ति युक्तोऽसि । मानुषेभ्यो मनुष्याणामर्थे वेदिषन्वेद्यामुपविष्टः संस्त्रिषु लोकेषु जागृहि यजमानं नेतुं सावधानो भव । यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी संब॑भूव॒तुः (२३) । तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शंभूः प्र॒जाभ्य॑स्त॒नुवे॑ स्यो॒नः । कल्पः-“यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुस्तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्रय" इति । यदिदमूषाख्यं दिवो यज्ञियं पृथिव्यां वर्तते यच्चादः कृष्णाख्यं पृथिव्या यज्ञियं दिवि चन्द्रमसि वर्तते तेनोभयेन वयमेनं मन्यामहे । रोदसीद्यावापृथिव्यौ संविदान ऐकमत्यं गते संबभूवतुः। पूर्वमेकी बभूवतुरिति तयोस्तादृश्योर्द्यावापृथिव्योः पृष्ठ उपरि जातवेदाः सीदतु । कीदृशः प्रजाभ्यः शंभूः प्रजानां सुखस्य भावयिता तनुवे स्योनः स्वशरीराय च सुखकरः। अनन्तरमन्त्रा आहवनीयाधाने सूत्रकारेणोदाहृताः । तत्पाठस्तु-
७८ (१.२.१) तैत्तिरीयब्राह्मणम् प्रा॒णं त्वा॒ऽमृते॒ आद॑धामि । अ॒न्नाद॒मन्नाद्या॑य । गो॒प्तारं॑ गु॒प्त्यै॑ । यत्तै॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदि॒हि तेन॑ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा । आन॑शे व्या॑न॒शे सर्व॒मायु॒र्व्या॑निशे (२४), इति । ह आहवनीय प्राणरूपं त्वाममृते स्थाने विनाशरहित आदधामि। अस्माकमन्नाद्यसिद्ध्यर्थमन्नादं त्वाऽऽदधामि। रक्षणार्थं गोप्तारं त्वामादधामि । सोऽयमेको मन्त्रः । हे शुक्र दीप्यमानाग्ने तव यच्छुक्रं वर्चो निर्मला कान्तिर्या च शुक्रा तनूर्निर्मलो देहो यच्चाजस्रं निरन्तरं शुक्रं ज्योतिर्निर्मलमितरभासकत्वं तेन सर्वेण युक्तो मे मदर्थं दीदीहि प्रकाशस्व । तेन कारणेन हेऽग्नेऽग्निना ब्रह्मणाऽग्निप्रकाशकेन मन्त्रेण त्वामादधे । अयं द्वितीयो मन्त्रः। अयमग्निरानशे भोक्तृदेहं व्याप्तवान् । व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुरपमृत्युपरिहारेण व्याप्तवान् । अयं तृतीयो मन्त्रः । तावेतौ द्वितीयतृतीयौ “धर्मः शिरः ” इत्यनुवाकेऽप्याम्नातौ । तयोः प्राचीमितिमन्त्रवत्पृथगुपयोगः सूत्रान्तरे द्रष्टव्यः । यद्वाऽस्यानुवाकस्य मन्त्रकाण्डानुरूपत्वाद् धर्मः शिर इत्यादिकमप्यत्रत्यमेवेति दर्शयितुं तदेकदेशोऽत्र पठति । ब्राह्मणसंबन्धार्थं तत्राऽऽम्नातं (नं) द्रष्टव्यम् । यदुक्तं सूत्रकारेण-“अथ विराट् कर्मयजमान उपतिष्ठते ” इति, तत्र प्रथमं विराट् क्रममन्त्रमाह- नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसै॑ । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम्, इति । हे नर्य मनुष्येभ्यो हित गार्हपत्य मे मदीयां प्रजां गोपाय । किमर्थममृतत्वाय जीवसेऽपमृत्युरहितजीवनाय । कीदृशीं प्रजाम् । पूर्वमुत्पन्नामितः परमुत्पत्स्यमानां च । तथाऽमृतत्वहेतौ सत्ये प्रतिष्ठितां सर्वदा सत्यवादिनीमित्यर्थः । अथ द्वितीयमाह- अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हाऽऽयु॑षे । अद॑ब्धायो॒ऽशी॑ततनो । अवि॑षं नः पि॒तुं कृ॑णु, इति ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७९ अथर्व पूर्वमथर्वाख्येन (ण) महर्षिणा मथितत्वात्तद्रूपत्वम् । तथा चान्यत्राऽऽम्नातम्-“अथर्वा त्वा प्रथमो निरमन्थदग्ने ” इति । तादृश हे दक्षिणाग्ने मे पितुं मदीयमन्र्नं गोपाय । यो रसः क्षीरादिर्यच्चान्नं व्रीहियवादिकं तदुभयमिह शरीर आयुष आयुर्थ स्थापयेति शेषः । हेऽदब्धायो केनाप्यहिंसिताग मन, न खलु त्वदीयमानगमनं केनचिदपि निवारयितुं शक्यम् । हेऽशीततनो, उष्ण शरीर नोऽस्मदीयं पितुमन्नमविषं विषरहितं कुरु । अथ तृतीयमाह- शᳵस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः (२५) । अ॒ष्टाश॑फाश्च॒ य इ॒हाग्नै॑ । ये चैक॑शफा आशु॒गाः, इति । हे शंस्यर्त्विग्भिः प्रशस्यमानाऽऽहवनीय मे पशून्गोपाय । ये पशवो द्विपादो मनुष्यरूपा येऽपि चतुष्पदो गवादिरूपास्तेऽप्यपि चतुष्पात्स्वष्टाशफा गोमहिष्यादय एकशफा आशुगामिनश्चाश्वादयो ये सन्ति तान्सर्वानिह लोके हेऽग्ने गोपाय । अथ चतुर्थमाह- सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्याः॑ सभा॒सदः॑ । ताविन्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम्, इति । प्रथया ख्यातया सहितः सप्रथः । तादृश हे सभ्य मे सभामधिदेवनस्थानं गोपाय । ये चं सभ्याः सभायोग्यः सभासदः सभायामुपविष्टाः सन्ति तान्सर्वानिन्द्रियावतश्चक्षुरादीन्द्रियपाट- वयुक्तान्कुरु । ते च सभ्याः सर्वमायुः शतसंवत्सरमायुरुपासतां सेवन्ताम् । अत्र पञ्चममाह- अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रयी॒वि॒दा वि॒दुः । ऋचः॒ सामा॑नि॒ यजू॑ᳵषि । सा हि श्रीरमृ॑ता स॒ताम्, (२६), इति । हेऽहेऽहिंसितव्य बुध्निय बुध्ने मूले जगदादावुत्पन्नाऽऽवसथ्य मे मदीयम्ऋगादिरूपं मन्त्रं गोपाय । यं मन्त्रं त्रयिविदा वेदत्रयाभिज्ञा ऋषयोऽ- तीन्द्रियद्रष्टारो विदुर्जानन्ति । तं मन्त्रं गोपायेति पूर्वत्रान्वयः । वेदत्रयोक्ता
८० (१.२.१) तैत्तिरीयब्राह्मणम् मन्त्रविशेषा ऋगादयः । गृहक्षेत्रादिपालनं परित्यज्य मन्त्रपालनप्रार्थने कारयेत्युच्यते । सतां सन्मार्गवर्तिनामृगादिरूपा सा खल्वमृता श्रीः । धनादिरूपायाः श्रियो बहुधा विनाशः संभावितः ऋगादिरूपायास्तु पुनः पुनरभ्यासेनाभिवृद्धिरेव न तूपक्षयः । चतुः॑शिखण्डा युव॒तिः सु॒पेशा॑: । घृ॒तप्र॑तीका॒ भुव॑नस्य मध्यै॑ । म॒मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । कल्पः-“चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये मर्मृज्यमाना महते सौभागाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम्” इति । अनुमन्त्रयत इति शेषः । अस्य च दर्शपूर्णमासगतयाजमानत्वात्तस्याङ्ग एवायं मन्त्र उत्तरे द्रष्टव्यः । बालानां मूर्धगताः शिखण्डाश्चत्वारः । शिखण्डवदुन्नताः श्रोणिद्वयांसद्वयप्रदेश यस्या वेदेः सा चतुःशिखण्डा युवतिर्मिश्रयित्री । सर्वाणि हवींषि वेद्यां मिश्री भवन्ति । तत्राऽऽहितत्वात् । सुपेशाः सुपर्णं तद्वच्छोभमानं यस्याः सा सुपेशाः । घृतप्रतीका घृतमेव प्रतीके मुखे यस्याः सा घृतप्रतीका आदावाज्यमेव वेद्यामासद्यते । तादृशी वेदिर्भुवनस्य मध्येऽस्माकं महते सौभागाय मर्मृज्यमानाऽतिशयेन शोध्यमाना वर्तते । हे वेदे यजमानाय मह्यं कामान्धुक्ष्व संपादय । इ॒हैव सन्तंत्र॒ सतो॑ वो अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । तिरो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । कल्पः-“इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि तिरो मा संतमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदेतयैवोपत्तिष्ठेत” इति । अग्निहोत्रिणो ग्रामान्तरगमने प्राप्ते सत्यग्न्युपस्थानं कृत्वा पश्चाद्गन्तव्यम् । यदि कदाचिन्महत उपस्थानस्यावसरो न स्यात्तदानीमेतयैवैकयोपतिष्ठेत । हेऽग्नय इहैव देशे सन्नहं तत्र तत्र गृहविशेषे सतो वर्तमानान्युष्मान्प्राणेन वाचा मनसा बिभर्मि धारयामि । ग्रामान्तरे गतस्यापि मम प्राणादयो भवद्विषयदेशवर्तित्वेन तिरोभूय सन्तमवस्थितं मामायुर्मा प्रहासीन्मा परित्यजतु । वैश्वानरेण सर्वमनुष्यहितेन ज्योतिषा युक्तान्वो युष्मानुपतिष्ठे यत्र तत्र स्थितोऽप्यहं सेवे । अयं मन्त्रोऽग्न्युपस्थानप्रकरणेऽग्निहोत्रविषये नेतव्यः ।