भारतकोश
तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

Taittiriya Upanishad with Shankara Bhashya

आदि शङ्कराचार्य द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)

DevanagariSanskritpublished261 पृष्ठ

पृष्ठ 188, कुल 261 में से

संदर्भ में पढ़ें
पृष्ठ 188

अष्टम अनुवाक ब्रह्मानन्दके निरतिशयत्वकी मीमांसा भीषास्माद्वा॒तः पवते । भीषोदे॒ति सूर्यः॑ । भीषास्मा॒- द॒ग्निश्चेन्द्र॑श्च । मृत्युर्धावति पञ्चम इति । सैषानन्दस्य मीमाꣳसा भवति । युवा स्यात्साधुयु॒वाध्या॑यक आशिष्ठो द्रढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १ ॥ स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामह- तस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः ॥ २ ॥ श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदे॒वानां॑ देवानामानन्दः । ये कर्म॑णा दे॒वानपि॒यन्ति॑ । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदे॒वानां॑ देवानामानन्दाः । स एको देवा- CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri