तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 103, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ५५] प्रथमाह्निकम् । ९३ कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभास- मानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सि- द्धिः। स एव च 'प्रकाश एव प्रकाशकः प्रमाता' इति नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्त- मुक्तम् 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः।' इति ॥ ५४ ॥ न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्र- त्युत एषां तदधीना सिद्धिः इत्याह प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । तेषामपि परो जीवः स एव परमेश्वरः ॥ ५५ ॥ इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण स्वस्वरूपेण तावत्स्वयमन्योन्यं वा न कश्चिद्विशेषः । नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् । यदि- पं० १ ख० पु० सर्वमस्यावभासेति पाठः । पं० १४ ख० पु० नास्ति कश्चिद्विशेष इति पाठः । पं० १५ क० पु० यदि हि स्वात्मनि पीतं स्यात्पीतं नीलं वा नीलं तत्किमिव विरुद्धमिति पाठः ।