तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 102, कुल 368 में से
संदर्भ में पढ़ें९२ श्रीतन्त्रालोकः । प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥५४॥ अपूर्वार्थविषयं खलु प्रमाणं । यदाहुः ‘अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा’ इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य प्रकाशमानत्वेन ‘अनपह्नवनीयत्वात्’ इति व्यर्थं तत्र प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात्, यद्यसौ पूर्वमनधिगतत्वेन अप्रकाश- मानः स्यात्, तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेत्, स्मृतिरपि एवंरूपमनुभवं विना नोत्प- द्यते, अनुभूतविषयासंप्रमोषात्मकत्वात्तस्याः, न च प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानु- भवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति पं० ११ क० पु० तद्भावश्चेति पाठः । पं० १२ क० पु० एवंरूपानुभवमिति समस्तः पाठः । पं० १५ ख० पु० य एव हि प्रकाश इति पाठः ।