तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 101, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ५३ ] प्रथमाह्निकम् । ९१ एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाश- मानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्या- पि इत्याह अवस्तुतापि भावानां चमत्कारैकगोचरा । यत्कुड्यसदृशी नेयं धीरवस्त्वेतादित्यपि ॥ ५३ ॥ यतो 'नास्त्यत्र घट' इत्येवंरूपापि बुद्धिर्बोधस्व- भावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव घटा- द्यभावोऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधा- त्मकशिवस्वभाव एव इत्यर्थः । तदाहुः 'अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव ।' इति ॥ ५३ ॥ ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदे- कपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः इत्याशङ्क्याह पं० ६ क० पु० घटाभावोपीति पाठः ।