तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 100, कुल 368 में से
संदर्भ में पढ़ें९० श्रीतन्त्रालोकः । 'ज्ञेयस्य' नीलादेर्नीलतैव प्रकाशमानता न ताव- दात्मभूता, तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु कदाचित्कंचित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः । अतश्च अस्य प्रकाशते, मम प्रकाशते इति प्रकाशात्मप्रमातृसं- लग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसि- तस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता, तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्वात्, अतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव पर- मार्थः इत्युक्तं 'प्रकाशात्मकः शिवः परं तत्त्वम्' इति । नन्वसौ स्वयमतथारूपोऽपि प्रकाशसंबन्धात्तथा भविष्यति इत्याशङ्क्याह 'नहि' इत्यादि । प्रकाश- संबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाश- रूप एव सन् प्रकाशते, नहि अप्रकाशरूपश्च प्रका- शते च इति स्यात्, नहि अश्वेतः प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात्, नहि प्रकाशरूपतामप- हाय अन्यद्वस्तु संभवेत् इति भावः ॥ ५२ ॥ पं० १ क० पु० नीलसुखादेरिति पाठः । पं० ५ क० पु० पर्यवस्थितरूपेति पाठः । पं० १२ क० पु० प्रकाशनरूपः प्रकाशते इति पाठः ।