तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 99, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ५२ ] प्रथमाह्निकम् । ८९ ‘इतर’ इति निर्विकल्पः । ‘तदैव’ इति देहसद्भावे इत्यर्थः । यदुक्तं तत्रैव ‘विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ।’ विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥ पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः ।’ इति। इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयति-इति इत्यादिना, ‘इतिशब्दः’ काकाक्षि- न्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः । स च ‘ज्ञेयतत्त्वप्रदर्शकम्’ इत्यादिना प्रागप्युक्तः ॥ ५१ ॥ ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्र- प्राधान्यावगमकमपि स्यात् इत्याशङ्क्याह ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥५२॥ पं० १ ख० पु० देवसद्भावे इति पाठः । पं० ३ ख० पु० विकल्पहीणचित्तस्तु इति पाठः । पं० ६ क० पु० ज्ञेयतत्त्वप्रकाशकमिति पाठः । १२