तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 98, कुल 368 में से
संदर्भ में पढ़ें८८ श्रीतन्त्रालोकः । दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं संभवेत् इति भावः । अत एव देहान्ते बुद्धावात्मग्रह- व्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्वान्मोक्षः इति युक्तमुक्तं 'तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्' इति ॥ ४६ ॥ एवं विकल्पोऽत्र संभवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य पुनरसंभवे सत्यपि देहे मुक्तिः इत्याह बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥५०॥ न चैतदप्रमाणकम् इत्याह 'इत्युक्तम्' इत्यादि ॥५०॥ विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् । इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥५१॥ पं० ५ क० पु० ततः शरीरान्ते इति पाठः ।