तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 97, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ४९ ] प्रथमाह्निकम् । ८७ ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्ना- ज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव इत्याशङ्क्याह दीक्षया गलितेऽप्यन्त- रज्ञाने पौरुषात्मनि । धीगतस्यानिवृत्तत्वा- द्विकल्पोऽपि हि संभवेत् ॥ ४८ ॥ 'धीगतस्य' इति अज्ञानस्य । 'विकल्पो हि' भेद- प्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् ॥ ४८ ॥ ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम् इत्याशङ्क्याह देहसद्भावपर्यन्त- मात्मभावो यतो धियि । देहान्तेऽपि न मोक्षः स्या- त्पौरुषाज्ञानहानितः ॥ ४९ ॥ पं० २ क० पु० देहान्ते निवृत्तिरिति पाठः । पं० ६ क० पु० निवृत्तत्वादिति पाठः । पं० ९ क० ख० पु० सा चैवेति पाठः । पं० १३ क० पु० देवसद्भावेति पाठः ।