तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 11, कुल 368 में से
संदर्भ में पढ़ेंअथ श्री तन्त्रालोकः श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचितः । श्रीमदाचार्यवर्यजयरथविरचितविवेकाभिख्यव्याख्यानोपेतः । प्रथममाह्निकम् । यस्मादेषणविक्रिया यदुदिता ह्यानन्दचिद्भूमयो यस्यैवोद्धुरशक्तिवैभवमिदं सर्वं यदेवंविधम् । तद्धाम त्रिकतत्त्वमद्वयमयं स्वातन्त्र्यपूर्णप्रथं चित्ते स्ताच्छिवशासनागमरहस्याच्छादनध्वंसि मे ॥१॥ पं० १ ख० पु० यस्सादीषणवत्क्रिया यदुचितास्तास्ता जगद्व्यक्तय इति, ग० पु० ... ... ... यदुचितास्तत्तप्रथाशक्तयो यद्धाम त्रिकतत्त्वमद्वयमयं मायाविमोहोत्थितम् । यन्नैवंविधतां कदाप्युपगतं यद्वा यदेवंविधं ध्वान्तं स्वान्तनिशान्तसंस्थितमपाकुर्यात्समन्तान्मम ॥ इति पाठः ।