भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 12, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 12

२ श्रीतन्त्रालोकः । देहे विमुक्त एवास्मि श्रीमत्कल्याणवारिधेः । यस्य कारुण्यविप्रुड्भिः सद्गुरुं तं हृदि श्रये ॥२॥ मूर्न्युत्तंस इव क्ष्मापैः सर्वैर्यस्यानुशासनम् । हृदये भवसंभारकर्कशेऽप्याशु शिश्रिये ॥३॥ न ग्रन्थकारपदमाप्तुमथास्म्यपूर्वं वाक्कौशलं च न निदर्शयितुं प्रवृत्तः । किं त्वेतदर्थपरिशीलनतो विकल्पः संस्कारवांश्च समियादिति वाञ्छितं नः ॥४॥ पं० १ ग० पु० एवास्मि यत्प्रसत्तीक्षणेक्षणात् । श्रीमत्कल्याणराजानं वन्दे तं जनकं गुरुम् ॥ इति पाठः । पं० २ ख० पु० श्रिये इति पाठः । एतच्छ्लोकानन्तरं ग० पु० श्लोकद्वयमाधिक्येन दृश्यते यथा शिवशासनागमरहस्यकोविदै- र्गुरुभिर्गभीरहृदयैर्दयोदयैः । करुणारुणा विदधिरे दृशस्तथा मयि दीनबन्धुभिरमोघभाषितैः ॥ यथा रहस्यसर्वस्वं मानसे मे शिवोदितम् । भाववासनया स्थानं कर्कशेऽप्याशु शिश्रिये ॥ युग्मम् इति । पं० ३ क० पु० मूर्निं तंस इव, ख० पु० उत्तंसमिवेति नपुंसकनिर्दिष्टः पाठः । पं० ५ ग० माप्तुमनासपूर्वमिति पाठः । पं० ६ ग० पु० स्वं कौशलं प्रथयितुं विबुधाः प्रवृत्ता, इति पाठः । पं० ८ ग० पु० वाञ्छितं मे इति पाठः ।