भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 117, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 117

श्लोकः ६७ ] प्रथमाह्निकम् । १०७ मपि । नहि एतदपेक्षया विश्वं नाम किंचिदस्ति, यदाकारत्वमप्यस्य स्यात् । एवं चैषां परप्रकाशा- पेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्ति इत्युक्तं - न चान्योन्यं विभिद्यते इति ॥ ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः इत्यादिधर्मभेद उक्तः इत्याशङ्क्याह एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥६७॥ तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः । अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादि- धर्मजातमाक्षिपेत् । अत्रायमर्थः - अयं हि नाम प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य परस्य वा प्रकाशने परं नापेक्षते इति । अत एवास्य १ तात्त्विक इत्यर्थः । पं० २ क० पु० कारत्वमस्य इति अपिशब्दहीनः पाठः । पं० १० क० पु० अञ्जसो विधिरिति पाठः । पं० १२ क० पु० सर्वविभुत्वादिधर्मेति पाठः । पं० १३ क० पु० अहं हि नाम प्रकाशस्य विमर्श इति पाठः ।