भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 116, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 116

१०६ श्रीतन्त्रालोकः । प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् । यत्पुनर्विभुत्वादि धर्मजातं तस्योक्तं, तदपेक्षया धर्म- धर्मिणोधर्माणां च परस्परं भेदस्य अनपह्नव- नीयत्वाद् योऽयं भेद उल्लसितः स कथं वार्यते येन एक एवेश्वरः इत्यद्वयवादनिर्वाहः स्यात् इत्याशङ्क्याह न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते । न च विभुताद्योऽयं अस्य स्वरूपातिरिक्तस्तद- तिशायकः कश्चित् धर्मः अपि तु स्वरूपमेवैतत् । विभुत्वं हि व्यापकत्वमुच्यते, तच्च स्वव्यतिरिक्ते व्याप्ये सति स्यात्, न च परं प्रकाशमपेक्ष्य दिगादि किंचित्संभवेत् इति किं नाम व्याप्नुयात् । नित्य- त्वमपि नास्य धर्मः- तस्य कालत्रयानुगामिरूपत्वात्, अस्य चाकालकलितत्वात्। यदभिप्रायेणैव 'सकृद्वि- भातोऽयमात्मा' इत्याद्युक्तम् । एवं विश्वाकृतित्व- पं० ३ ख० पु० परस्परस्य भेदस्येति पाठः । पं० ५ क० पु० निर्वाह इत्याशङ्क्येति पाठः । पं० ६ ख० पु० अतिरिक्ताधिशायक इति पाठः । पं० १३ क० पु० नित्यत्वमस्य नापि धर्मः तत्र कालत्रयानुगामित्वादस्येति पाठः ।