तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 115, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ६६ ] प्रथमाह्निकम् । १०५ दिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्त- मेव, अन्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं स्यात्, तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्ग- मात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्ताय- मानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्य- थानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम्, अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि तन्मयः इत्युभयथापि न कश्चिद्दोषः । अत एवो- क्तं - सर्वाकृतिर्निराकृतिरिति । सर्वाकृतिः विश्व- मयः , निराकृतिः विश्वोत्तीर्णः । आवृत्त्या तत्त्वे- ऽपि तदुत्तीर्णः - इति च । तदेवमयमेक एव प्रका- शात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव परमार्थतः ॥६६॥ ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया पं० १ ख० पु० दर्पणानतिरिक्तमिति पाठः । पं० ३ क० पु० तथा प्रकाशात्मना इत्येव शब्दहीनः पाठः । पं० ४ ग० पु० इदं जगत् स्वेच्छयेति पाठः । पं० ५ क० पु० अवसितमिति पाठः । पं० ६ क० पु० स्वरूपानतिरिक्तत्वेनैवेति पाठः । पं० १३ क० पु० परमार्थ इति पाठः । १४