तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 114, कुल 368 में से
संदर्भ में पढ़ें१०४ श्रीतन्त्रालोकः । न्नतारूढौ इत्यादि । अवच्छेदलये इति अवच्छे- दानां संकोचाधायिनां भुवनादीनां लये विश्वो- त्तीर्णतायाम् इत्यर्थः । विश्वमयत्वेऽप्यस्य स्वस्व- रूपान्न प्रच्यावः इत्याशयः । नन्वेवमुभयथापि अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत् इत्याशङ्क्योक्तम् अनवच्छिन्नतारूढाविति । अस्य हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नताया- मेव प्ररोहो भवेत्, एक एव हि स्वतन्त्रो बोध- स्तथा तथा प्रस्फुरेत् इति ॥६५॥ ननु कथमेकदैव एकस्य विश्वमयत्वेऽपि विश्वो- त्तीर्णत्वं संगच्छते इत्याशङ्काशान्त्यर्थमागमं संवा- दयति उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः । जलदर्पणावत्तेन सर्वं व्याप्तं चराचरम् ॥६६॥ दर्पणाद्यन्तःप्रतिबिम्बितं घटादि यथा दर्पण- पं० १७ क० पु० दर्पणान्तः इति आदिशब्दहीनः ख० पु० दर्पणव्यतिरेकेणेति च पाठः ।