तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 113, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ६५ ] प्रथमाह्निकम् । १०३ यत् विज्ञानम् - अनुभवः, तस्मात् परो - विमर्शैक- सारशिवैकात्म्यापत्तिलक्षणो , मोक्षो निःसंशयं भवेत् इति वाक्यार्थः । व्योमादिषट्क इति पाठे तु व्योमादेः षट्कस्य विशिष्टादनवच्छिन्नाज्ज्ञानात् इति व्याख्येयम् । न च अत्र भुवनादीनां क्रमो विवक्षितः इतीह व्योमादि इति प्रयुक्तम् ॥६४॥ ननु यद्ययं विश्वाकृतिस्तत्कथमस्य षड्विधत्व- मेवोक्तम् इत्याशङ्क्याह विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । अनवच्छिन्नतारूढा- ववच्छेदलयेऽस्य च ॥६५॥ उपलक्षणम् एव भवति, अनेनैव निखिल- विश्वसंग्रहसिद्धेः । न केवलमेतद्विश्वाकारताया- मेवास्योपलक्षणं यावदन्यत्रापि इत्याह - अनवच्छि- पं० ४ क० पु० अनवच्छिन्नादिति ज्ञानशब्दविहीनः पाठः । पं० १३ ख० पु० उपलक्षणमिव इति पाठः । पं० १४ क० पु० एवोपलक्षणं यावदत्रापीति पाठः ।