भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 112, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 112

१०२ श्रीतन्त्रालोकः । 'भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् । भुवनेशत्वमाप्नोति....................॥' इत्युपक्रम्य 'ब्रह्मादिकारणानां तु विग्रहं यः सदा स्मरेत् । पूर्वोक्तलक्षणं यच्च तन्मयत्वमवाप्नुयात् ॥ मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् । पूर्वोक्तरूपकध्यानात्सिध्यत्यत्र न संशयः ॥ ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् । तन्मयत्वं तदाप्नोति योगिनामधिपो भवेत् ॥ शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतिर्भवेत् । समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत् ॥' इति । एषां च षण्णामपि शिवात्मकत्वात् ६....................'शिवं ध्यात्वा तु तन्मयः ।' इत्याद्युक्तेः शिवैकमयतयैकैकानुप्रवेशेऽपि शिवा- त्मकस्वस्वरूपलाभो भवेत् इत्याह व्योमादिशब्द- विज्ञानात् इत्यादि । व्योमादीनाम् एषां षण्णां शब्दानां शब्दनं शब्दः – परो विमर्शः, तदात्मकतया पं० ८ क० पु० ज्योतिर्ध्यानाच्चेति पाठः । पं० ९ क० पु० अधिको भवेदिति पाठः । पं० १० क० पु० सर्वगतो भवेदिति पाठः । पं० १४ क० पु० शिवैकानुप्रवेश इति इयानेव पाठः । पं० १७ क० पु० शब्दः परविमर्शोति समस्तः पाठः ।