तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 111, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ६४ ] प्रथमाह्निकम् । १०१ ‘उन्मना तु परो भावः स्थूलस्तस्यापरो मतः । पुनः शून्यं च व्योमात्मा संस्पर्शं च ततः परम् ॥ शब्दो ज्योतिस्तथा मन्त्राः कारणा भुवनानि च ।’ इति । तथा ‘व्योम-विग्रह-बिन्दूर्णा-भुवनाध्वविभेदतः । लक्ष्यभेदः स्मृतः षोढा.................... ॥’ इत्यादि ॥६३॥ अत्र च ‘यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः । सिद्धिभाक्.................... ॥’ इतिन्यायेन यस्य यत्र निष्ठा तस्य तत्प्राप्तिर्भ- वति इत्याह यो यदात्मकतानिष्ठ- स्तद्भावं स प्रपद्यते । व्योमादिशब्दविज्ञानात्- परो मोक्षो न संशयः ॥६४॥ यः साधको, यस्य भुवनादेः, आत्मकतायां तद्रूपताया, निष्ठितः, स तद्भावं-तत्तद्भुवना- दिरूपत्वेन नियतां सिद्धिमेति इत्यर्थः । तदुक्तं
पं० २ ख० पु० व्योमात्मा च पुनः शून्यं संस्पर्शमिति पाठः । पं० ५ ख० पु० भुवनेष्वनिभेदत इति पाठः ।