तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 126, कुल 368 में से
संदर्भ में पढ़ें११६ श्रीतन्त्रालोकः । श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥७५॥ अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् । तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् इति वाक्यशेषः । एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयति अनुभाव इत्या- दिना । तत्र गरुडेन 'शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः । प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किंचन ॥' इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किंचित् इति पृष्टे, भगवता 'माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः । मायाधर्मैः शिवः शून्यः..................॥' इत्यादिना 'अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् । अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट् ॥' पं० १८ ख० पु० अनुभवेन किम् इत्येवंविधः पाठः ।