भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 127, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 127

श्लोक ७५ ] प्रथमाह्निकम् । ११७ इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽपि मानसप्रत्यक्षविषयत्वात् किंचित्त्वेन प्रतिसमाहितम् । एतच्च पुनरप्यागूर्य गरुडेन 'अनुभावो विकल्पोत्थो विकल्पो* मानसः स च । समनस्कं च तज्ज्ञेयममनस्कमरूपकम् ॥ अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ । ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ॥' इत्यादिना पृष्टम् । एतत्प्रश्नार्थ एव ग्रन्थकृता संक्षेपचिकीर्षया स्ववचसोपनिबद्धः । अत्रायमर्थः— यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्ष- विषयत्वमुक्तं तत्र मानसोऽनुभवः 'संकल्पकमत्र मनः................... ।


  • तदिति मानसविकल्पनं समनस्कं, शिवतत्त्वं पुनरमनस्कमरूपकं च, अर्थ इति दीक्षादिः प्रवर्तते इत्यर्थः । पं० १० बुभुक्षादि हि चक्षुरादिप्रत्यक्षागोचरमपि मनोगोचरतामेति तद्वदिहापि ।

पं० ३ क० पु० पुनरागूर्येति पाठः । पं० ६ ग० पु० दैशिकस्तत्रेति पाठः ।

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित) · पृष्ठ 127, कुल 368 में से · BharatKosha