तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 128, कुल 368 में से
संदर्भ में पढ़ें११८ श्रीतन्त्रालोकः। इति नीत्या संकल्पात्मकत्वात् विकल्पः तस्य चार्थसंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न प्रमाणं, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत् इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात्, दैशिको हि परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् । अत एव ‘गुरौ ज्ञानम्’ इत्याद्युक्तम् । इति शब्दः प्रश्न- समाप्तौ । अत्र इति गरुडोक्ते प्रश्ने । उत्तरम् इति भगवदुक्तं प्रतिसमाधानम् ॥ ७५ ॥ तदेवाह क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥७६॥ न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन योज्यः, नायं प्रश्न इति । हि-शब्दो हेतौ यतो बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न भवति इत्यर्थः । आसां हि प्रथममविकल्पकमानसप्र- दं० ४ क० पु० अज्ञापितेऽपि शिवतत्त्वे इति, ख० पु० अविज्ञाते इति पाठः।