तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 135, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ८४ ] प्रथमाह्निकम् । १२५ चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम् इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं, तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव सुसूक्ष्मम् अपरिच्छेद्यम् ॥८३॥ तत्त्वग्रामस्य चास्य न संकुचित आत्मः धर्मः, अपि तु परः इत्याह आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः इत्यर्थः। एवं स एव परमुपेयः इति तत्रैवावधातव्यम् इत्यपि सूचितम् । कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत् इत्याह पं० ४ ख० पु० ऐकात्म्येन स्फुरदिति पाठः । पं० १० ख० पु० शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पाठः ।