तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 134, कुल 368 में से
संदर्भ में पढ़ें१२४ श्रीतन्त्रालोकः । द्विविधो हि धर्मः पदार्थस्य-प्राणप्रदो विशेषाधान- हेतुश्च । आद्यो यथा सामान्यं, नहि गोत्वमन्तरेण गौः गौरेव भवति । द्वितीयो यथा गुणः, शुक्ला- दिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो धर्मः अत एव अनपायवान् नित्यावियुक्तः इत्युक्तम् । हि शब्दो हेतौ । नन्वत्र किं प्रमाणम् इत्याश- ङ्क्योक्तम् ‘इत्युक्तं त्रिशिरोमत’ इति ॥८२॥ तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया द्वैविध्येन प्रवृत्तेरुभयथाप्याह हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥८३॥ समूह एव सामूह्यम् । ग्रामशब्दो हि समूहार्थ- वृत्तिः । ‘कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।’ इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्ये देहे पं० १४ क० पु० ग्रामशब्दोऽपि इति पाठः ।