भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

१२४ श्रीतन्त्रालोकः । द्विविधो हि धर्मः पदार्थस्य-प्राणप्रदो विशेषाधान- हेतुश्च । आद्यो यथा सामान्यं, नहि गोत्वमन्तरेण गौः गौरेव भवति । द्वितीयो यथा गुणः, शुक्ला- दिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो धर्मः अत एव अनपायवान् नित्यावियुक्तः इत्युक्तम् । हि शब्दो हेतौ । नन्वत्र किं प्रमाणम् इत्याश- ङ्क्योक्तम् ‘इत्युक्तं त्रिशिरोमत’ इति ॥८२॥ तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया द्वैविध्येन प्रवृत्तेरुभयथाप्याह हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥८३॥ समूह एव सामूह्यम् । ग्रामशब्दो हि समूहार्थ- वृत्तिः । ‘कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।’ इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्ये देहे पं० १४ क० पु० ग्रामशब्दोऽपि इति पाठः ।

श्लोक ८४ ] प्रथमाह्निकम् । १२५ चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम् इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं, तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव सुसूक्ष्मम् अपरिच्छेद्यम् ॥८३॥ तत्त्वग्रामस्य चास्य न संकुचित आत्मः धर्मः, अपि तु परः इत्याह आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः इत्यर्थः। एवं स एव परमुपेयः इति तत्रैवावधातव्यम् इत्यपि सूचितम् । कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत् इत्याह पं० ४ ख० पु० ऐकात्म्येन स्फुरदिति पाठः । पं० १० ख० पु० शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पाठः ।

प्रकाशावस्थितं ज्ञानं

१२६ श्रीतन्त्रालोकः । प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥८४॥ स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति । विविक्तवस्तुकाथित- शुद्धविज्ञाननिर्मलः ॥८५॥ ग्रामधर्मवृत्तिरुक्त- स्तस्य सर्वं प्रसिद्ध्यति । आदिशब्दाद्भावोऽपि, तेन भावाभावयोः भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे अवस्थितं यत् ज्ञानं, तस्य स्वस्य आत्मनः स्थाने स्थितौ वर्तनं ज्ञेयं-ग्रामधर्मविषये वृत्तिर्ज्ञा- तव्या इत्यर्थः । इदमत्र तात्पर्यम् — भावद्वयस्य भावाभावयोर्वा प्रतीतिकाले मध्यं तद्द्वयावच्छेदहेतुं शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव पं० १० क० पु० तद्वलब्धप्रकाशं स्वात्मन्येव न पुनर्भावस्वरूपे इति पाठः ।

श्लोक ८६ ] प्रथमाह्निकम् । १२७ सावधानस्य परमोपेये शिवामृतपरिप्लुते परमा- त्मनि वृत्तिर्जायते इति । तदुक्तं 'उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् । युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥ भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना ॥' इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् । तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टृत्वं ज्ञेयम्, तच्च विगतावृत्ति विगता निवृत्ता भावाभावाद्यात्मकबाह्यरूपा आवृत्तिः यस्य तत्, बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च विगता परापरात्मना कालेन रहिता कलनात्मिका आवृत्तिः यस्य तत्, अकालकलितम् इत्यर्थः । तदुक्तं 'अपरः षोडशो यावत्कालः सप्तदशः परः । परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥ प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।' पं० ३ क० पु० भावेन्यक्ते परमे शिवेति पाठः पं० ५ ख० पु० भावे न्यक्ते निरुद्धा चेदिति पाठः ।

१२८ श्रीतन्त्रालोकः । इति । तथा विगता पदैकादशकात्मिका आवृत्तिः यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्मायाकारोज्झितम् इति यावत् । यदुक्तं ‘पदैकादशिका सा च प्राणे चरति नित्यशः । अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ अर्धचन्द्रो निरोधी च नादो नादान्त एव च । शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ॥’ इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थ- साक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं ‘उन्मना तु ततोऽतीता तदतीतं निरामयम् ।’ इति । अत एव तत्तद्देशकालाकारैः विविक्तम् अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं, तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्या- पत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः ‘भैरवाद्भैरवीं प्राप्तः ............ ।’ पं० १६ क० ख० पु० भैरवीप्राप्त इत्युक्तेरिति पाठः ।

प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥

श्लोकः ८५] प्रथमाह्निकम्। १२९ इत्याद्युक्तेरस्मद्गुरुभिरप्युक्तः इति श्रीकण्ठस्ये- यमुक्तिः । तदुक्तं तत्र 'चतुर्थं संप्रवक्ष्यामि ग्रामधर्मविभेदतः।' इत्याद्युपक्रम्य 'हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः । प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते । वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टृत्वं परिपठ्यते ॥ प्रबुद्धं तद्विजानीयाद्बाह्यावरणवर्जितम् । परापरविनिर्मुक्तमेकादशपदोञ्झितम् ॥ स्वात्मन्यात्मनि यज्ज्ञानं शिवामृतपरिप्लुतम् । विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ ग्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः ।' इति । एतदेव च 'अथ वा शिवमन्विच्छेदत्साधकः परतत्त्ववित् ।' इत्यादि 'स्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता ।' पं० ६ ग० पु० सामूह्यं सर्वतत्त्वानामिति पाठः । पं० ७ क० पु० आत्मैव धर्म इत्युक्तो ग्रामो धर्म इति पाठः । १७

१३० श्रीतन्त्रालोकः । इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षे- प्तुकामो ग्रन्थकारः स्वोक्त्या योजयति 'तस्य सर्वं प्रसिद्धयति' इति–तस्य ग्रामधर्मवृत्तेः प्राणापानग- तित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामर- स्यस्य सर्वं बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदम- यत्वेन सिद्धयति प्रथते इत्यर्थः । तदुक्तं 'शिवभावनयौषध्या बद्धे मनसि संसृते । काष्ठकुड्यादिषु क्षिप्ते रसवच्छ्लवहेमता ॥' इति ॥८४॥८५॥ अत आह ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥८६॥ ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोट- यित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनाडीं प्रविशेत् । स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या पं० ६ क० पु० प्रसिद्धयतीति पाठः ।

श्लोकः ८६ ] प्रथमाह्निकम् । १३१ देश : अन्तर्व्योमरूप एकदेशस्तं गच्छति जानाति य : स : - तदेकतानतया तन्निष्ठः ईत यावत् । तदुक्तं 'मध्यनाडी मध्यसंस्थबिससूत्राभरूपया । ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥' इति । अत एवोक्तं रामस्थः इति '..................एकाकी न रमाम्यहम् ।' इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्या- त्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे 'सेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः । ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ॥' तत्रैवागूरणेन १ भगवत्या 'रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो । तस्याभ्यासः कथं नाम ब्रूहि सर्व महेश्वर ॥' १ आगूरणमाक्षेपः पं० ४ ख० पु० बिससूत्राभसूत्रयेति पाठः । पं० १४ क० पु० यत्रस्थः स च क इति पाठः ।

१३२ श्रीतन्त्रालोकः । इति पृष्टे, भगवता 'रामस्थं परमेशानि योगं यत्कीर्तितं मया । कथयामि यथातथ्यमभ्यासस्तस्य योगतः ॥' इत्यन्तेन प्रतिज्ञाय, तत्समाधानं बहुना ग्रन्थेन कृतम् ॥ ८६ ॥ इह च तदेव ग्रन्थकारः शब्दार्थद्वारेण पठति गतिः स्थानं स्वप्नजाग्र- दुन्मेषाणानिमेषणे । धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥८७॥ बुद्धिभेदास्तथा भावाः संज्ञाः कर्माशयनेकशः । एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥८८॥ स्वप्नः विकल्पः, जाग्रत् ज्ञानं, उन्मेषणम् ईश्वर- दशा, निमेषणं सदाशिवदशा, आयासः 'अय गतौ' गत्यर्थो ज्ञानार्थः तेन अयः अयनं ज्ञानं तस्यासः क्षेपो निवृत्तिः - अज्ञानम् इत्यर्थः । धर्माद्या- अष्टौ

श्लोकः ८९ ] प्रथमाह्निकम् । १३३ बुद्धिधर्माः, संज्ञाः- यादृच्छिका डित्थादयः, कर्माणि- व्यापाराः । अनेन च गत्यादिना चतुर्दशकेन सकल- विश्वस्वीकारः कृतः । यच्चैतद्गत्यादि एष रामः- सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः, अत एवोक्तं 'व्यापकोऽत्र शिवः परमकारणम्' इति, अत्र इति गत्याद्युपलक्षिते विश्वस्मिन्, शिवस्यैव हि अयमशेषविश्वात्मा स्फारः इति भावः । तदुक्तं 'विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः । यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥' इति ॥८७॥८८॥ कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति इत्याह कल्मषघ्नीगामनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥८६॥ पं० ६ क० पु० शिवस्यैव हृदयमशेषेति पाठः । पं० १५ क० पु० ध्यायते सकलं ध्येयमिति पाठः ।

१३४ श्रीतन्त्रालोकः । परं शिवं तु व्रजति भैरवाख्यं जपादपि । येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो यस्य तेन 'सर्वो विकल्पः स्मृतिः.......................।' इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीर- मुखहस्ताद्यात्मकं विकल्पनं, तस्य निरोधनम्—आका- राद्युल्लेखशून्यत्वेन प्रतिहननं, तदवलम्ब्य, तत्तन्नि- यताकारसंकोचाभावात् परमं ध्येयं शिवलक्षणं परम- कारणं ध्यायते स्वात्माभेदेन परामृश्यते । यदुक्तं 'ध्यानं या निश्चला बुद्धिर्निराकारा निराश्रया । न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ॥' इति । एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च अगतिः स्थानं, ताभ्यामुपलक्षिते पदे समनन्त- पं० ५ क० पु० मनो मतिरिति विमर्शात्मेति पाठः । पं० १२ ख० ग० पु० निश्चला चिन्ता इति पाठः । पं० १३ क० पु० मुखचिन्तादिकल्पना इति पाठः ।

श्लोकः ९० ] प्रथमाह्निकम् । १३५ रोक्ते चतुर्दशविधे आश्रये स्थितम्, अत एव परं पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति - तत्समावे- शमाप्नोति इत्यर्थः । न केवलमयं ध्यानादेव शिवं व्रजति यावज्जपादपि इत्युक्तं-जपादपि इति ॥८६॥ कोऽसौ जपो नाम इत्याशङ्क्याह तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥६०॥ तस्य शिवस्य, स्वरूपं परावाक्स्वभावम् आत्मरूपम् अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव भावाभावपदच्युतः-पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवि- त्परामर्शमात्रसारः इत्यर्थः । तदुक्तं 'भूयो भूयः परे भावे भावना भाव्यते हि या । जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥' पं० १ ग० परिपूर्णमिति पाठः पं० ६ ख० पु० तत्स्वरूपो जपः प्रोक्त इति पाठः, पं० ७ ख० पु० पदाच्युत इति, पदाक्युत इति पाठान्तरं चास्ति । पं० ११ क० पु० परामर्शसार इति पाठः । पं० १२ ग० पु० परे तत्त्वे इति पाठः । क० पु० साध्यते हि या इति पाठः । पं० १४ क० पु० जप ईदृश इति पाठः ।

१३६ श्रीतन्त्रालोकः । इति। एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात्। तदुक्तं श्रीत्रिशिरोभैरवे ‘गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिषन्निमिषंस्तथा । धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकंशः । एतच्चतुर्दशविधं रामं तु परिकीर्तितम् ॥ व्यापितं देवदेवेन शिवेन परमात्मना । सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा ॥ कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ परं शिवं तु व्रजति भैरवाख्यं जपादपि । तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥’ इति ॥६०॥ ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकार- ध्येयविषयत्वं, जपस्य विकल्पात्मकवाचकवाच्यज- प्यनिष्ठत्वं चोक्तम्, इह पुनः स्वात्माभेदेन परामर्श- मात्रमेवोभयो रूपम् इति किमेतद् इत्याशंक्याह पं० १ क० पु० रामस्येति इति पाठः । पं० १२ क० पु० तत्स्वरूपो जप इति पाठः । पं० १४ क० पु० व्यतिरिक्ताकारध्येयेति पाठः ।

श्लोकः ९२ ] प्रथमाह्निकम् । १३७ तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । दूरासन्नादिको भेद- श्चित्स्वातन्त्र्यव्यपेक्षया ॥६१॥ इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका- शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप- देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव- मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशङ्क्यम् – उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् ॥६१॥ एतदेवोपसंहरति एवं स्वातन्त्र्यपूर्णात्वा- दतिदुर्घटकार्ययम् । केन नाम न रूपेण भासते परमेश्वरः ॥६२॥ पं० ५ क० पु० इह अहंपरामर्शमात्रसारत्वादिति पाठः । १८

१३८ श्रीतन्त्रालोकः । रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥६२॥ अत एवाह निरावरणमाभाति भात्यावृतनिजात्मकः । आवृतानावृत्तो भाति बहुधा भेदसंगमात् ॥६३॥ इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । इच्छादिभिरभिख्याभि- र्गुरुभिः प्रकटीकृतम् ॥६४॥ निरावरणम् इति शुद्धप्रकाशमयत्वात् , आवृत इति भेदकालुष्योदयात् , आवृतानावृत्तः इति शुद्ध- ज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात् , अत एव परापरपरापरत्वं , बहुधा इति एषणीयादिनानात्वात् अनेकप्रकारम् इत्यर्थः । निरावरणत्वेऽपि हि निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् । पं० ६ क० ख० पु० भेदसंगम इति पाठः । पं० १४ क० पु० एषणीयत्वादिनानात्वादिति पाठः ।

श्लोकः ९५ ] प्रथमाह्निकम् । १३९ इति शब्दः स्वरूपपरामर्शकः, तेन एतदेव अव- भासमानं निरावरणत्वादि परादिरूपं शक्तित्रयं गुरुभिः एतच्छास्त्रावतारकैः इच्छादिसंज्ञाभिः परमे- श्वरविषयतया उन्मीलितमपि स्वातन्त्र्यशक्त्यभि- धानमेव इति 'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावि- युक्तता' इति निर्वाहितम् ॥६३॥६४॥ बहुशक्तित्वमेव च एतदभिधायकानां प्रवृत्ति- निमित्तम् इत्याह देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते । महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥६५॥ अन्वर्थैः व्युत्पन्नैः निरुक्तैः, शास्त्रोक्तैः साम- यिकैः ॥६५॥ तदेवाह विश्वं बिभर्ति पूरणा- द्धारणाद्योगेन तेन च भ्रियते । पं० १ ख० पु० एतदेवाभासमानमिति पाठ ।

१४० श्रीतन्त्रालोकः । सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥६६॥ संसारभीतिजनिता- द्वात्परामर्शतोऽपि हृदि जातः । प्रकटीभूतं भवभय- विमर्शनं शक्तिपाततो येन ॥६७॥ नक्षत्रप्रेरककाल- तत्त्वसंशोषकारिणो ये च । कालग्राससमाधान- रसिकमनःसु तेषु च प्रकटः ॥६८॥ संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । अन्तर्बहिश्चतुर्विध- खेचर्यादिकगणस्यापि ॥६९॥ तस्य स्वामी संसार- वृत्तिविघटनमहाभीमः । पं० १ क० पु० स्वविमर्शतयेति पाठः । पं० १४ ख० ग० पु० भूचर्यादिकगणस्यापीति पाठः ।

श्लोकः १०० ] प्रथमाह्निकम् । १४१ बिभर्ति-धारयति पोषयति च स्वात्मभित्तिसंलग्न- त्वेन तदुल्लासनात् । तेन इति विश्वेन, भ्रियते इति धार्यते पोष्यते च - तस्य विश्वमयत्वेनैव सर्वत्र स्फुर- णात् । रवरूपतः इति शब्दनस्वाभाव्यात्, तेन भरणाद्रवणाच्च भैरवः इत्ययं निरुक्तः । भीरू- णाम् अयं हितकृत् इति भैरवः, भीरुत्वे च नि- मित्तं संसारः तेन संसारिणामभयप्रदः इत्यर्थः । भयं भीः संसारत्रासः, तया जनितो योऽसौ रवः भगवद्विषय आक्रन्दः परामर्शो वा ततो जातः इति भैरवः, तेनाक्रन्दवतां परामर्शवतां च हृदि परमार्थभूमौ स्फुरितः इति यावत् । भवाद्भयं भीस्तस्य रवो विवेचनं विमर्शनं तस्य शक्तिपात- मुखेन अयं कारणम् इति भैरवः, संसारवैमुख्ये- ऽपि अयमेव निमित्तम् इति भावः । भानि नक्ष- त्राणि ईरयति प्रेरयति इति भेरः कालः तस्य तत्त्वं क्षणाद्यात्मकं स्वरूपं, तस्य सम्यङ् निःशेषेण पं० २ क० ख० पु० तदुल्लासादिति पाठः । पं० ५ ख० पु० निरुक्तिरिति पाठः ।

१४२ श्रीतन्त्रालोकः । शोषम् अभिभवं कुर्वन्ति इति कालं वायन्ति इति भैरवाः-कालग्राससमाधिरूढावधाना यो- गिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः इति भैरवः । संकोचिनो भेदप्रथामयस्य पशुज- नस्य भिये तत्तत्सुखदुःखाद्युपजननत्रासाय रवणं शब्दराशिसमुत्थकादिकलाविमर्शमयो रवो यासां ताः स्वकरणदेव्य इन्द्रियशक्तयः, तथा अन्तर्बहिः प्र- मातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकारः खेचर्या- दिको गणः खेचरी-गोचरी-दिक्कचरी-भूचर्यो भीरवा- स्तासामयं स्वामी भैरवः । महाभीम इति भी- षणः, तेनात्र भैरवशब्दः संकेतितः इति भावः ॥६६॥६७॥६८॥६९॥ एतदेवोपसंहरति भैरव इति गुरुभिरिमै- रन्वर्थैः संस्तुतः शास्त्रे ॥१००॥ पं० १ क० पु० वाहयन्ति इति भैरवा इति पाठः । पं २ क० समधिरूढावधाना इति, ख० पु० समारूढा, इति पाठान्तरोपेतश्च पाठः । पं० ३ क० पु० अयं स्वरूपीति पाठः ।

श्लोकः १०१ ] प्रथमाह्निकम् । १४३ गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः सम- नन्तरोक्तैः अन्वर्थैः अर्थानुगतैर्वाचकैः, संस्तुतः परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्था- दुक्तः । अथ च अन्वर्थैः सम्यक् सकलजगद्धरणादि- सामर्थ्यप्रतिपादनद्वारेण स्तुतः इत्यर्थः, यदुक्तं 'ध्रियात्सर्वं रवयति सर्वदो व्यापकोऽखिले । इति भैरवशब्दस्य सततोच्चारणाच्छिवः ॥' इति । तथा '....................भरणाद्धरितस्थितिः ।' इति । इमैः इति चिन्त्यम् । गुरुगदितैरिति तु श्रेष्ठः पाठः ॥१००॥ हेयेत्यादिना देवशब्दस्य निर्वचनमाह हेयोपादेयकथा- विरहे स्वानन्दघनतयोच्छलनम् । पं० ४ क० पु० असौ चान्वर्थैः सकलजगद्धरणादिति पाठः । पं० ६ ख० पु० रचयतीति पाठः । पं० ७ क० पु० समन्ततोच्चारणाच्छिव इति पाठः । पं० ११ ख० पु० स्पष्टः पाठः इति । पं० १४ ख० पु० स्वानन्दतयोच्छलनमिति प्रथमः पाठः ।