तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 138, कुल 368 में से
संदर्भ में पढ़ें१२८ श्रीतन्त्रालोकः । इति । तथा विगता पदैकादशकात्मिका आवृत्तिः यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्मायाकारोज्झितम् इति यावत् । यदुक्तं ‘पदैकादशिका सा च प्राणे चरति नित्यशः । अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ अर्धचन्द्रो निरोधी च नादो नादान्त एव च । शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ॥’ इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थ- साक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं ‘उन्मना तु ततोऽतीता तदतीतं निरामयम् ।’ इति । अत एव तत्तद्देशकालाकारैः विविक्तम् अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं, तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्या- पत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः ‘भैरवाद्भैरवीं प्राप्तः ............ ।’ पं० १६ क० ख० पु० भैरवीप्राप्त इत्युक्तेरिति पाठः ।