तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 137, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ८६ ] प्रथमाह्निकम् । १२७ सावधानस्य परमोपेये शिवामृतपरिप्लुते परमा- त्मनि वृत्तिर्जायते इति । तदुक्तं 'उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् । युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥ भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना ॥' इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् । तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टृत्वं ज्ञेयम्, तच्च विगतावृत्ति विगता निवृत्ता भावाभावाद्यात्मकबाह्यरूपा आवृत्तिः यस्य तत्, बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च विगता परापरात्मना कालेन रहिता कलनात्मिका आवृत्तिः यस्य तत्, अकालकलितम् इत्यर्थः । तदुक्तं 'अपरः षोडशो यावत्कालः सप्तदशः परः । परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥ प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।' पं० ३ क० पु० भावेन्यक्ते परमे शिवेति पाठः पं० ५ ख० पु० भावे न्यक्ते निरुद्धा चेदिति पाठः ।