तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 147, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ९२ ] प्रथमाह्निकम् । १३७ तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । दूरासन्नादिको भेद- श्चित्स्वातन्त्र्यव्यपेक्षया ॥६१॥ इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका- शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप- देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव- मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशङ्क्यम् – उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् ॥६१॥ एतदेवोपसंहरति एवं स्वातन्त्र्यपूर्णात्वा- दतिदुर्घटकार्ययम् । केन नाम न रूपेण भासते परमेश्वरः ॥६२॥ पं० ५ क० पु० इह अहंपरामर्शमात्रसारत्वादिति पाठः । १८