भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

श्लोकः ९२ ] प्रथमाह्निकम् । १३७ तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । दूरासन्नादिको भेद- श्चित्स्वातन्त्र्यव्यपेक्षया ॥६१॥ इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका- शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप- देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव- मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशङ्क्यम् – उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् ॥६१॥ एतदेवोपसंहरति एवं स्वातन्त्र्यपूर्णात्वा- दतिदुर्घटकार्ययम् । केन नाम न रूपेण भासते परमेश्वरः ॥६२॥ पं० ५ क० पु० इह अहंपरामर्शमात्रसारत्वादिति पाठः । १८

१३८ श्रीतन्त्रालोकः । रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥६२॥ अत एवाह निरावरणमाभाति भात्यावृतनिजात्मकः । आवृतानावृत्तो भाति बहुधा भेदसंगमात् ॥६३॥ इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । इच्छादिभिरभिख्याभि- र्गुरुभिः प्रकटीकृतम् ॥६४॥ निरावरणम् इति शुद्धप्रकाशमयत्वात् , आवृत इति भेदकालुष्योदयात् , आवृतानावृत्तः इति शुद्ध- ज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात् , अत एव परापरपरापरत्वं , बहुधा इति एषणीयादिनानात्वात् अनेकप्रकारम् इत्यर्थः । निरावरणत्वेऽपि हि निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् । पं० ६ क० ख० पु० भेदसंगम इति पाठः । पं० १४ क० पु० एषणीयत्वादिनानात्वादिति पाठः ।

श्लोकः ९५ ] प्रथमाह्निकम् । १३९ इति शब्दः स्वरूपपरामर्शकः, तेन एतदेव अव- भासमानं निरावरणत्वादि परादिरूपं शक्तित्रयं गुरुभिः एतच्छास्त्रावतारकैः इच्छादिसंज्ञाभिः परमे- श्वरविषयतया उन्मीलितमपि स्वातन्त्र्यशक्त्यभि- धानमेव इति 'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावि- युक्तता' इति निर्वाहितम् ॥६३॥६४॥ बहुशक्तित्वमेव च एतदभिधायकानां प्रवृत्ति- निमित्तम् इत्याह देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते । महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥६५॥ अन्वर्थैः व्युत्पन्नैः निरुक्तैः, शास्त्रोक्तैः साम- यिकैः ॥६५॥ तदेवाह विश्वं बिभर्ति पूरणा- द्धारणाद्योगेन तेन च भ्रियते । पं० १ ख० पु० एतदेवाभासमानमिति पाठ ।

१४० श्रीतन्त्रालोकः । सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥६६॥ संसारभीतिजनिता- द्वात्परामर्शतोऽपि हृदि जातः । प्रकटीभूतं भवभय- विमर्शनं शक्तिपाततो येन ॥६७॥ नक्षत्रप्रेरककाल- तत्त्वसंशोषकारिणो ये च । कालग्राससमाधान- रसिकमनःसु तेषु च प्रकटः ॥६८॥ संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । अन्तर्बहिश्चतुर्विध- खेचर्यादिकगणस्यापि ॥६९॥ तस्य स्वामी संसार- वृत्तिविघटनमहाभीमः । पं० १ क० पु० स्वविमर्शतयेति पाठः । पं० १४ ख० ग० पु० भूचर्यादिकगणस्यापीति पाठः ।

श्लोकः १०० ] प्रथमाह्निकम् । १४१ बिभर्ति-धारयति पोषयति च स्वात्मभित्तिसंलग्न- त्वेन तदुल्लासनात् । तेन इति विश्वेन, भ्रियते इति धार्यते पोष्यते च - तस्य विश्वमयत्वेनैव सर्वत्र स्फुर- णात् । रवरूपतः इति शब्दनस्वाभाव्यात्, तेन भरणाद्रवणाच्च भैरवः इत्ययं निरुक्तः । भीरू- णाम् अयं हितकृत् इति भैरवः, भीरुत्वे च नि- मित्तं संसारः तेन संसारिणामभयप्रदः इत्यर्थः । भयं भीः संसारत्रासः, तया जनितो योऽसौ रवः भगवद्विषय आक्रन्दः परामर्शो वा ततो जातः इति भैरवः, तेनाक्रन्दवतां परामर्शवतां च हृदि परमार्थभूमौ स्फुरितः इति यावत् । भवाद्भयं भीस्तस्य रवो विवेचनं विमर्शनं तस्य शक्तिपात- मुखेन अयं कारणम् इति भैरवः, संसारवैमुख्ये- ऽपि अयमेव निमित्तम् इति भावः । भानि नक्ष- त्राणि ईरयति प्रेरयति इति भेरः कालः तस्य तत्त्वं क्षणाद्यात्मकं स्वरूपं, तस्य सम्यङ् निःशेषेण पं० २ क० ख० पु० तदुल्लासादिति पाठः । पं० ५ ख० पु० निरुक्तिरिति पाठः ।

१४२ श्रीतन्त्रालोकः । शोषम् अभिभवं कुर्वन्ति इति कालं वायन्ति इति भैरवाः-कालग्राससमाधिरूढावधाना यो- गिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः इति भैरवः । संकोचिनो भेदप्रथामयस्य पशुज- नस्य भिये तत्तत्सुखदुःखाद्युपजननत्रासाय रवणं शब्दराशिसमुत्थकादिकलाविमर्शमयो रवो यासां ताः स्वकरणदेव्य इन्द्रियशक्तयः, तथा अन्तर्बहिः प्र- मातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकारः खेचर्या- दिको गणः खेचरी-गोचरी-दिक्कचरी-भूचर्यो भीरवा- स्तासामयं स्वामी भैरवः । महाभीम इति भी- षणः, तेनात्र भैरवशब्दः संकेतितः इति भावः ॥६६॥६७॥६८॥६९॥ एतदेवोपसंहरति भैरव इति गुरुभिरिमै- रन्वर्थैः संस्तुतः शास्त्रे ॥१००॥ पं० १ क० पु० वाहयन्ति इति भैरवा इति पाठः । पं २ क० समधिरूढावधाना इति, ख० पु० समारूढा, इति पाठान्तरोपेतश्च पाठः । पं० ३ क० पु० अयं स्वरूपीति पाठः ।

श्लोकः १०१ ] प्रथमाह्निकम् । १४३ गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः सम- नन्तरोक्तैः अन्वर्थैः अर्थानुगतैर्वाचकैः, संस्तुतः परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्था- दुक्तः । अथ च अन्वर्थैः सम्यक् सकलजगद्धरणादि- सामर्थ्यप्रतिपादनद्वारेण स्तुतः इत्यर्थः, यदुक्तं 'ध्रियात्सर्वं रवयति सर्वदो व्यापकोऽखिले । इति भैरवशब्दस्य सततोच्चारणाच्छिवः ॥' इति । तथा '....................भरणाद्धरितस्थितिः ।' इति । इमैः इति चिन्त्यम् । गुरुगदितैरिति तु श्रेष्ठः पाठः ॥१००॥ हेयेत्यादिना देवशब्दस्य निर्वचनमाह हेयोपादेयकथा- विरहे स्वानन्दघनतयोच्छलनम् । पं० ४ क० पु० असौ चान्वर्थैः सकलजगद्धरणादिति पाठः । पं० ६ ख० पु० रचयतीति पाठः । पं० ७ क० पु० समन्ततोच्चारणाच्छिव इति पाठः । पं० ११ ख० पु० स्पष्टः पाठः इति । पं० १४ ख० पु० स्वानन्दतयोच्छलनमिति प्रथमः पाठः ।

१४४ श्रीतन्त्रालोकः । क्रीडा सर्वोत्कर्षेण- वर्तनेच्छा तथा स्वतन्त्रत्वम् ॥१०१॥ व्यवहरणामभिन्नेऽपि स्वात्मनि भेदेन संजल्पः । निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥१०२॥ तत्प्रवणामात्मलाभा- त्प्रभृति समस्तेऽपि कर्तव्ये । बोधात्मकः समस्त- क्रियामयो दृक्क्रियागुणश्च गतिः ॥१०३॥ स्वस्वातन्यमाहात्म्यात् शिवादिक्षित्यन्ताशेषवि- श्वात्मनोल्लासनमेव अस्य क्रीडा सर्वोत्कर्षेण वर्तने- च्छा, तथा स्वतन्त्रत्वं व्यवहरणम् इति अभिन्नेऽपि स्वात्मनि भेदेन संजल्पः, क्रीडेति देव्यति क्रीडति इति देवः । न चात्र क्रीडातिरिक्तं निमित्तम् इत्याह हेय इत्यादिना । नहि किंचिदुपादातुं हातुं वा जग-

पं० ५ क० ख० अखिलेति पाठः । पं० ६ क० पु० बोधात्मकसमस्तक्रियामये इति पाठः । पं० १० क० ख० पु० गुणमयश्च गतिरिति पाठः ।

श्लोक १०३ ] प्रथमाह्निकम् । १४५ त्सर्गादौ ईश्वरः प्रवर्तते, अत एव स्वानन्दघनत्व- मेवात्र हेतुरुपात्तः, अत एव चास्य स्वतन्त्रत्वमेव, सर्वोत्कर्षेण वर्तनेच्छा विजिगीषुता, विजिगीषोर्हि कथं नु नाम सर्वानिवाभिभूय अहं वर्ते इतीयमेव इच्छा भवति । तथा-शब्दः पूर्वापेक्षया समुच्चये तेन दीव्यति विजिगीषते इति देवः । देवशब्दस्य सर्वस्मात् अभिन्नेऽपि स्वात्मनि भेदेन 'अहमिदं जा- नामि' इति योऽयमस्य संजल्पः तद्व्यवहरणम् अपा- रमार्थिकेन रूपेण स्फुरणम् इत्यर्थः, तेन दीव्यति व्यवहरति इति देवः । निखिलस्य प्रमातृप्रमेयात्मनो निखिले चास्य यत् अवभासनं तत् द्योतनं, तेन दीव्यति द्योतते द्योतयति इति वा देवः । यतः सकलमिदं जगत् स्वरूपलाभात्प्रभृति समस्तेति- कर्तव्यतायां तदायत्तप्रवृत्ति इत्यस्य स्तुतिः । सर्वे हि शिवमन्त्रमहेश्वरादयः तत्परतन्त्रवृत्तित्वादुन्मु- खतया प्रह्वा एव इति भावः । अस्य इति कर्मणि पं० ६ क० पु० इति भाव इति पाठः । पं० ८ ख० पु० योऽस्येति पाठः । पं० १५ ख० पु० शिवे मन्त्रमहेश्वरेति शोधितः पाठः । १९

१४६ श्रीतन्त्रालोकः । षष्ठी, तेन दीव्यते स्तूयते इति देवः । समस्ता पूर्णा विमर्शलक्षणा क्रिया प्रकृता यस्यासौ, दृक्क्रिये गुणः शक्तिर्यस्यासौ, यतोऽयमेवंविधः ततोऽस्य गतिः - विशेषानुपादानात् सर्वत्र ज्ञानं प्रसरणं च इति सर्वज्ञः सर्वव्यापकश्च इति सिद्धम्, तेन दीव्यति, जानाति, प्रसरति च इति वा देवः ॥१०१॥ १०२॥१०३॥ एतदेवोपसंहरति इति निर्वचनैः शिवतनु- शास्त्रे गुरुभिः स्मृतो देवः । गुरुभिः इति बृहस्पतिपादैः स्मृत इति ‘एवं वामो देवः स दीव्यति क्रीडति प्रभुर्यस्मात् ।’ इत्यादिना ‘अविवृत्तगतिः स यस्माद्देवस्तस्मात्सदाशिवो गीतः ।’ इत्यन्तेन ग्रन्थेन व्यावर्णितः इत्यर्थः ॥ शासनेत्यादिना पतिशिवशब्दयोर्निर्वचनमाह पं० १२ क० ख० पु० क्रीडति प्रभुर्यः स्यादिति पाठः ।

श्लोक १०४ ] प्रथमाह्निकम् । १४७ शासनरोधनपालन- पाचनयोगात्स सर्वमुपकुरुते । तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥१०४॥ शासनं शास्त्रोपदेशादिना बोध्यानां बोधनं । रोधनं संसारिणां विलयशक्त्या आघ्रातत्वात् तत्रै- वावस्थापनं । पालनं यथास्थितस्य विश्ववैचित्र्यस्य नियतनियन्त्रणया तथैव स्थापनात्मकं संरक्षणं । पाचनं कर्मणां कर्मिणः प्रति फलदानोन्मुख्यजननम् । उक्तं हि ‘स्वापेऽप्यास्ते बोधयन्बोधयोग्यान् रोध्याञ्रुन्धन्पाचयन्कर्मिकर्म । मायाशक्तोर्व्यक्तियोग्याः प्रकुर्वन् सर्वं पश्यन् यद्यथावस्तुजातम् ॥’ इति । तेन इति रक्षणार्थपर्यवसायिनोऽपि पतिशब्दस्य शासनादिकारकत्वेन हेतुना इत्यर्थः । अत एव पं० ६ ख० पु० फलदानादौन्मुख्येति पाठः । पं० १४ ग० पु० पश्यन्सर्वं यद्यथेति पाठः । पं० १५ ख० पु० पर्यवसायिनोपकारकत्वेन हेतुनेत्येवंविधः पाठः ।

१४८ श्रीतन्त्रालोकः । पाति रक्षति इति पतिः । श्रेयोमयः पराद्वयस्व- भावत्वात् । अशिवम् इति द्वैतम् ॥१०४॥ ननु एवमपि किं विशेषणयोगेन, इत्याशङ्क्याह ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन । तेनावच्छेदमुदे परममहत्पदविशेषणमुपात्तम् ॥१०५॥ ईदृक् इति भैरवादिशब्देष्वन्वर्थगत्या दर्शितम् । कियत् इति किंचिदेव, न तु सर्वम्, एतत् हि अंशां- शिकया सर्वत्रैव संभवेत् इति भावः । अत एव अन्य- व्यवच्छेदेन सर्वातिशयप्रतिपादनार्थं परममहत्पदल- क्षणं विशेषणमुक्तम् ॥१०५॥ ननु अज्ञानं संसृतौ निमित्तं, ज्ञानं च मोक्षे, स्वस्वरूपाख्यातिश्चाज्ञानं, तत्ख्यातिश्च ज्ञानं, स्वा- पं० १ क० पु० परमाद्वयेति पाठः । पं० ३ स० पु० विशेषेण योगेनेति पाठः । पं० ७ ख० पु० महत्पदमुपात्तमिति पाठः । पं० ११ क० पु० महत्पदविशेषणमिति लक्षणपदहीनः पाठः । पं० १४ क० पु० तद्व्याख्यातिश्चेति पाठः ।

श्लोक १०६ ] प्रथमाह्निकम्। १४९ त्मनश्च स्वरूपं परः प्रकाशः, स एव च स्वं रूपं स्वे- च्छया प्रच्छाद्य विश्वरूपतामवभासयेत् । एवमपि तदधिगमे तच्छक्तिरेवोपायो, येन स्वरूपख्यातिर्भ- वेत्, इयदेव च ज्ञातव्यम् यत्सर्वेषामेव शास्त्राणां प्रतिपाद्यं तच्च इह उक्तप्रायम् इत्यत एव विर- न्तव्यम् इत्याशङ्क्याह इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया । मया स्वसंवित्सतर्क- पतिशास्त्रालिकक्रमात् ॥ १०६॥ ‘इत्युपोद्घातः’ । इति – उक्तेन प्रकारेण यत् ज्ञेयस्य बन्धमोक्षादेः शास्त्रान्तरदृष्टत्वात् सतत्त्वं पारमार्थिकं रूपम् अर्थादिह संक्षेपेण उद्दङ्कितम्, तन्मया शिवाज्ञया स्वसंविदादि अवलम्ब्य च दर्श्यते – विस्तरेण उच्यते इत्यर्थः । शिवोऽत्र गुरुः । ‘यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः । उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ॥’ पं० १४ ख० पु० अवलम्ब्य चर्च्यते इति पाठः ।

१५० श्रीतन्त्रालोकः । इति, नहि अत्र तदादेशमन्तरेण अधिकार एव भवेत् ईत भावः । स्वसंवित् स्वानुभवः । सत्तर्को युक्तिः । पतिशास्त्रं भेदप्रधानं शैवम् । त्रिकं परादिशक्तित्रया- भिधायकं शास्त्रम् । क्रमः चतुष्टयार्थः । समाहारेऽयं- द्वन्द्वः । इह सर्वमेव स्वानुभवेन युक्त्या सामान्या- गमेन विशेषागमेन च सिद्धमुपदिश्यते इत्यागमः । उपोद्घात इति उप — आशु संक्षेपेण ऊर्ध्वमादौ हन्यते टंक्यते दीनार इव राजाभिधानं शास्त्रार्थो यस्मिन् स तथा ॥ १०६ ॥ तदेवं प्रतिज्ञाय शास्त्रार्थगर्भीकारेण संप्रति अव- तारयितुमाह तस्य शक्तय एवैता- स्तिस्रो भान्ति परादिकाः । सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ १०७ ॥ तस्य परमेश्वरस्य भैरवादिशब्दाभिधेयस्य, एताः पं० २ क० पु० स्वसंविदनुभव इति पाठः । प० ७ ख० पु० उपांशु संक्षेपेयोति पाठः ।

श्लोकः १०८ ] प्रथमाह्निकम् । १५१ निखिलशक्त्यन्तरगर्भीकारेण प्रधानतया प्रतिपा- दिताः परादिकास्तिस्रः शक्तयः, सृष्टौ, स्थितौ, लये संहारे, तुर्ये, अनाख्ये च भान्ति-सर्वसर्वात्मकेन रूपेण स्फुरन्ति इत्येकैकस्याः चातूरूप्येण श्रीसृष्टिकाल्या- द्यात्मकतया द्वादशधोदय इति वाक्यार्थः । तदुक्तं 'धाम्नां त्रयाणामप्येषां सृष्ट्यादिक्रमयोगतः । भवेच्चतुर्धावस्थानमेवं द्वादशधोदितः ॥ स्वसंवित्परमादित्यः प्रकाशवपुरव्ययः ।' इति ॥ १०७ ॥ ननु एक एव परप्रकाशात्मको भैरवादिशब्द- व्यपदेश्यः परमेश्वरः समस्ति, तस्य चाभिन्ना एकैव स्वातन्त्र्याख्या शक्तिः इत्युपपादितं, तत्कथमस्य इह द्वादशधोदय इत्युक्तम् ?, इत्याशङ्क्याह तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते । तेनात्रोपासकाः साक्षा- त्तत्रैव परिनिष्ठिताः ॥ १०८ ॥ पं० ३ क० पु० भवन्ति सर्वसर्वात्मकत्वेन स्फुरन्तीति पाठः । पं० ११ ख० पु० तस्य चैके वाभिन्ना इति पाठः ।

१५२ श्रीतन्त्रालोकः । तावान् इति - द्वादश शक्तयः परिमाणमस्य, स तथा, अत एव पूर्णस्वभावः इत्युक्तं । पूर्णे सर्व- मस्ति, सर्वत्र पूर्णमस्ति, अन्यथास्य पूर्णतैव न स्यात् । अत एव अत्र द्वादशात्मके चक्रे ये उपास- काः ते तत्र परमशिवे एव परिनिष्ठिताः - तदैकात्म्य- भाजो भवन्ति इत्यर्थः । एतच्च बहुप्रघट्टकवक्त- व्यम्, इति शाक्तोपायाह्निक एव वितत्य विचार- यिष्यते, इति नेहायस्तम् ॥ १०८ ॥ ननु कथमेतद्युक्तं - यतोऽत्र संख्यायाः तत्र तत्र न्यूनत्वमाधिक्यं च संभवति ?, इत्याशङ्क्याह तासामपि च भेदांश- न्यूनाधिक्यादियोजनम् । तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥ १०६ ॥ तदेवाह एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः । पं० १६ ख० पु० यामलोक्त इति, यामलोत्थ इति च पाठः ।

श्लोकः १११ ] प्रथमाह्निकम् । १५३ पञ्चमूर्तिः षडात्मायं सप्तकोष्ठकभूषितः ॥ ११० ॥ नवात्मा दशादिक्शक्ति- रेकादशकलात्मकः । द्वादशारमहाचक्र- नायको भैरवस्त्विति ॥ १११ ॥ यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः । चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादि- तया । तदुक्तं 'सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे । त्रिकं तु भैरवे तन्त्रे....................॥' इति । षडात्मा इति, यद्वक्ष्यति 'विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा । गुर्वीति षडरे देव्यः.................. ॥' इति । सप्तकः इति, यदुक्तं पं० ८ क० पु० तत्रैव प्रक्रियायामिति पाठः । पं० ११ ख० पु० चतुर्थं वामेति पाठः । २०

१५४ श्रीतन्त्रालोकः । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा चेति मातरः ॥' इति । अष्टकेन अघोरादिना । स एव एतदष्टकम- ध्यवर्ती नवात्मा । दशदिक्छक्तिः इति, यदुक्तं 'उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी । श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ॥' इति । एकादश इति खण्डचक्रोक्ता । इयदन्तं न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः । अनेन अधिकसंख्यासूत्रणम् ॥११०॥१११॥ तच्च अधिकसंख्याकत्वं निरवधि, इत्याह एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः । विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥ सहस्रारे इति त्रिशिरोभैरवप्रथमपटलोक्ते । ग्रन्थ- विस्तरभयात्तु न प्रातिपद्येन संवादितम् । निःसंख्यारे इति भुवनादीनामानन्त्यात् । एवमपि एतस्मान्न व्य- तिरिक्तम्, इत्याह विश्वशक्तिः इति । तदुक्तं पं० ८ क० ग० पु० न्यूनस्वीकार इति, ख० पु० अनेन त्रयोदशकथनेन अधिकेति च पाठः ।

श्लोकः ११३ ] प्रथमाह्निकम् । १५५ 'शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ॥' इति ॥११२॥ ननु विश्वेषामपि चक्राणां यदि प्रभुरेव परमार्थः तदेकेनैव कार्ताथ्यात् प्रतिशास्त्रं बहूनि किमुक्तानि?, इत्याशङ्क्याह तेषामपि च चक्राणां स्ववर्गानुगमात्मना । ऐक्येन चक्रगो भेद- स्तत्र तत्र निरूपितः ॥११३॥ ऐक्येन तत्तत्सृष्ट्याद्यात्मनियतकृत्यकारित्वादिना साजात्येन । तच्च नियतकृत्यकारित्वादेव अस्य स्ववर्गानुगमात्मकत्वमुक्तम्, अत एव चक्रगो भेद इति शास्त्रेषु चक्राणामानन्त्यम् ॥११३॥ तदेव दर्शयति चतुष्षड्विद्विंगणा- योगात्त्रैशिरसे मते । पं० १२ क० पु० अस्य स्ववर्गानुगमेति पाठः ।

१५६ श्रीतन्त्रालोकः । षट्चक्रेश्वरता नाथ- स्योक्ता चित्रनिजाकृतेः ॥११४॥ चतुर्णां द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोड- श, षण्णां द्विगणनायोगेन द्वादश, पुनस्तथात्वेन चतुर्विंशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्स- मुल्लास्यचक्राद्युपाधिवैचित्र्याच्चित्रा — नानाकारा, तद- तिरिक्तस्य अन्यस्य अनुपसम्भात् निजाकृतिः यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तच्चक्रा- धिष्ठातुः प्रभोः त्रैशिरसे मते त्रिशिरोभैरवे उक्ता अभिहिता इत्यर्थः । तदुक्तं तत्र ‘चतुष्कं षट्कोष्ठकं द्वादशारं षोडशारकम् । चतुर्विंशारकं देवि प्रविभक्त्या सुसंस्थितम् ॥’ इत्यादि ॥११४॥ बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरो- भैरव एवोक्तम्, इत्याह पं० ३ क० पु० तथात्वे षोडश इति पाठः । पं० ६ क० पु० समुल्लासस्य चक्रेति पाठः । पं० ११ क० पु० चतुष्कषट्कोष्ठकेति पाठः । पं० १२ क० पु० प्रविभक्त्या तथाष्टकमिति पाठः ।