तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 164, कुल 368 में से
संदर्भ में पढ़ें१५४ श्रीतन्त्रालोकः । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा चेति मातरः ॥' इति । अष्टकेन अघोरादिना । स एव एतदष्टकम- ध्यवर्ती नवात्मा । दशदिक्छक्तिः इति, यदुक्तं 'उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी । श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ॥' इति । एकादश इति खण्डचक्रोक्ता । इयदन्तं न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः । अनेन अधिकसंख्यासूत्रणम् ॥११०॥१११॥ तच्च अधिकसंख्याकत्वं निरवधि, इत्याह एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः । विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥११२॥ सहस्रारे इति त्रिशिरोभैरवप्रथमपटलोक्ते । ग्रन्थ- विस्तरभयात्तु न प्रातिपद्येन संवादितम् । निःसंख्यारे इति भुवनादीनामानन्त्यात् । एवमपि एतस्मान्न व्य- तिरिक्तम्, इत्याह विश्वशक्तिः इति । तदुक्तं पं० ८ क० ग० पु० न्यूनस्वीकार इति, ख० पु० अनेन त्रयोदशकथनेन अधिकेति च पाठः ।