तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 163, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः १११ ] प्रथमाह्निकम् । १५३ पञ्चमूर्तिः षडात्मायं सप्तकोष्ठकभूषितः ॥ ११० ॥ नवात्मा दशादिक्शक्ति- रेकादशकलात्मकः । द्वादशारमहाचक्र- नायको भैरवस्त्विति ॥ १११ ॥ यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः । चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादि- तया । तदुक्तं 'सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे । त्रिकं तु भैरवे तन्त्रे....................॥' इति । षडात्मा इति, यद्वक्ष्यति 'विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा । गुर्वीति षडरे देव्यः.................. ॥' इति । सप्तकः इति, यदुक्तं पं० ८ क० पु० तत्रैव प्रक्रियायामिति पाठः । पं० ११ ख० पु० चतुर्थं वामेति पाठः । २०