भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 152, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 152

१४२ श्रीतन्त्रालोकः । शोषम् अभिभवं कुर्वन्ति इति कालं वायन्ति इति भैरवाः-कालग्राससमाधिरूढावधाना यो- गिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः इति भैरवः । संकोचिनो भेदप्रथामयस्य पशुज- नस्य भिये तत्तत्सुखदुःखाद्युपजननत्रासाय रवणं शब्दराशिसमुत्थकादिकलाविमर्शमयो रवो यासां ताः स्वकरणदेव्य इन्द्रियशक्तयः, तथा अन्तर्बहिः प्र- मातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकारः खेचर्या- दिको गणः खेचरी-गोचरी-दिक्कचरी-भूचर्यो भीरवा- स्तासामयं स्वामी भैरवः । महाभीम इति भी- षणः, तेनात्र भैरवशब्दः संकेतितः इति भावः ॥६६॥६७॥६८॥६९॥ एतदेवोपसंहरति भैरव इति गुरुभिरिमै- रन्वर्थैः संस्तुतः शास्त्रे ॥१००॥ पं० १ क० पु० वाहयन्ति इति भैरवा इति पाठः । पं २ क० समधिरूढावधाना इति, ख० पु० समारूढा, इति पाठान्तरोपेतश्च पाठः । पं० ३ क० पु० अयं स्वरूपीति पाठः ।