तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 153, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः १०१ ] प्रथमाह्निकम् । १४३ गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः सम- नन्तरोक्तैः अन्वर्थैः अर्थानुगतैर्वाचकैः, संस्तुतः परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्था- दुक्तः । अथ च अन्वर्थैः सम्यक् सकलजगद्धरणादि- सामर्थ्यप्रतिपादनद्वारेण स्तुतः इत्यर्थः, यदुक्तं 'ध्रियात्सर्वं रवयति सर्वदो व्यापकोऽखिले । इति भैरवशब्दस्य सततोच्चारणाच्छिवः ॥' इति । तथा '....................भरणाद्धरितस्थितिः ।' इति । इमैः इति चिन्त्यम् । गुरुगदितैरिति तु श्रेष्ठः पाठः ॥१००॥ हेयेत्यादिना देवशब्दस्य निर्वचनमाह हेयोपादेयकथा- विरहे स्वानन्दघनतयोच्छलनम् । पं० ४ क० पु० असौ चान्वर्थैः सकलजगद्धरणादिति पाठः । पं० ६ ख० पु० रचयतीति पाठः । पं० ७ क० पु० समन्ततोच्चारणाच्छिव इति पाठः । पं० ११ ख० पु० स्पष्टः पाठः इति । पं० १४ ख० पु० स्वानन्दतयोच्छलनमिति प्रथमः पाठः ।