तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥'
श्लोक ३३ ] द्वितीयमाह्निकम् । २७ 'स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥' इति, अत एव शक्तौ स्वातन्त्र्यात्मनि स्वभाव एव तिष्ठति-सदैव ताद्रूप्येण वर्तत इत्यर्थः, अत एव शक्तिगर्भ-स्वातन्त्र्यशक्तिमन्तरेण नास्यान्याः शक्तयो विद्यन्ते इत्यर्थः, सैव हि तत्तदेषणीयाद्यर्थो- पाधिवशान्नानात्वेन व्यवह्रियत इति भावः, यदुक्तम् 'तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः । बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥' इति, तेन 'स्वतन्त्रो बोधः परमार्थः' इत्याद्युक्तनी- त्यानवच्छिन्नस्वरूपः स्वातन्त्र्यशाल्यविकल्पकः प्र- काश एव परं तत्त्वम्, इति तात्पर्यम् ॥ ३२ ॥ अत एव च नियतव्यवच्छेदासहिष्णुत्वादेतद्विक- ल्प्यतां नैति, इत्याह न भावो नाप्यभावो न द्वयं वाचामगोचरात् । अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ ३३ ॥
२८ श्रीतन्त्रालोकः । अगोचरादिति भावप्रधानो निर्देशः, तेन वाचा- मगोचरत्वादकथ्यपदवीरूढमित्यर्थः । एतच्च सर्वमस- कृत्स्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥३३॥ ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह इति ये रूढसंवित्ति- परमार्थपवित्रिताः । अनुत्तरपथे रूढा- स्तेऽभ्युपायानियन्त्रिताः ॥ ३४ ॥ इति - उक्तेन गुरूपदेशादिना, रूढा - तदैकात्म्य- लाभादापादितप्ररोहा, या संवित्तिः, तस्या यः पर- मार्थः - सर्वसर्वात्मत्वेन स्फुरणं, तेन पवित्रिताः - भेद- विकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन अनियन्त्रिताः - तन्निरपेक्षाः सन्तः, अनुत्तरपथे - पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विका- पं० १२ क० पु० विकारकारककालुष्यापनयेनेति पाठः । पं० १३ क० पु० तेनाभ्यतिरिक्तेनेति पाठः ।
श्लोक ३५ ] द्वितीयमाह्निकम् । २६ सात्मवृत्तिमार्गे विश्रान्ताः - स्वरसावस्थानेनैव लब्ध- तत्सामरस्या इत्यर्थः, तदुक्तम्, 'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् । केवलं चिद्विकासेन विकारनिकराञ्जहि ॥' इति । तथा 'आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।' इति । तथा 'उपायो नापरः कश्चित्त्वसत्तावगमादृते । तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥' इति ॥३४॥ ततश्च किम् ? इत्याह तेषामिदं समाभाति सर्वतो भावमण्डलम् । पुरःस्थमेव संवित्ति- भैरवाग्निविलापितम् ॥३५॥ तेषाम् - अनुपायसमावेशशालिनां, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं 'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । मदभिन्नमिदं च ................. ॥' पं० ४ क० पु० केनचिच्चिद्विकासेनेति पाठः । पं० ६ क० पु० योगी स परम इति पाठः ।
३० श्रीतन्त्रालोकः । इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः, यदुक्तम् 'यथा रुमायां पतिताः काष्ठपर्णोपलादयः । लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥' इति ॥३५॥ अत एवाह एतेषां सुखदुःखांश- शंकातंकविकल्पनाः । निर्विकल्पपरावेश- मात्रशेषत्वमागताः ॥३६॥ एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । न समय्यादिकाचार्य- पर्यन्तः कोऽपि विभ्रमः ॥३७॥ न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किंचित्, यावदलौकिक्योऽपि, इत्याह 'एषामित्यादि' कल्पना-स्थानादिका ॥ ३६-३७॥ पं० ७ क० पु० सुखदुःखानां शङ्केति पाठः । पं० ९ क० पु० परामर्शमात्रेति पाठः । पं० १३ ग० पु० चर्यापर्यन्त इति पाठान्तरं चास्ति ।
श्लोक ३८ ] द्वितीयमाह्निकम् । ३१ ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? इत्या- शंक्याह समस्तयन्त्रणातन्त्र- त्रोटनाटंकधर्मिणः । नानुग्रहात्परं किंचि- च्छेषवृत्तौ प्रयोजनम् ॥ ३८ ॥ समस्ताः – निखिलाः शास्त्रोक्ता यन्त्रणा – ‘इदं कार्यम् इदं न’ इत्यादयो नियमाः, ता एव तन्यमान- त्वात्तन्त्रं – पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां विच्छेदे, टंकधर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हि टंक- स्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया यन्त्रणाः – नहि आरूढस्यास्य ततः कश्चित्संकोच इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव निया- मकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह पं० ८ ख० पु० तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थं, टंकवद्दि- दारणाधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।
३२ श्रीतन्त्रालोकः । 'नानुग्रहांदिति' किंचिदिति - समयपरिपालनादि ॥ ३८ ॥ तदाह स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्ना- न्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् । यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ ३६ ॥ एष लोकः संकुचितः प्रमातृवर्गः तावत् ‘............अभिलाषो मलोऽत्र तु ।' इत्यादिनीत्या लौकिकाणवमलयोगादात्मन्यपूर्ण- मन्यतया 'किमपि' इति सामान्येन निर्देशात्सर्वमा- त्मीयं कर्तव्यं, यत्नतः - आकांक्षणीयत्वेन, कलयन् 'तदसिद्धं यदसिद्धेन साध्यते ।' इत्यादिनीत्या यस्य स्वार्थ एव न सिद्धः स कथं परार्थं प्रत्यपि कांचन स्वल्पामपि स्वप्रवृत्तिं घट- यते घटितापि वा तत्प्रवृत्तिर्न किंचित्कुर्यात् इति भावः, यः पुनरनुपायसमाविष्टत्वादेव खिलीकृत- पं० २ ख० पु० पारक्यमिति पाठः ।
श्लोक ३६ ] द्वितीयमाह्निकम् । ३३ निखिलबन्धः, अत एव भैरवीभावेन भगवदद्वयज्ञाना- पत्त्या स्वात्मनि कृतकृत्यत्वेन – आकांक्षणीयस्यैवा- भावात् पूर्णः – अनन्योन्मुखतया स्वात्मन्येव विश्रा- न्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्यं स्वात्मप्रत्यभिज्ञापनं, तन्मात्रमेवेदं स्फुटम् – अपरिम्लानं कृत्यं – लोकानुग्रह एवास्य कर्तव्य इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किंचित्कर- णीयमस्तीति भावः, यद्गीतं भगवता 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥' इति । 'न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥' इति च ॥३६॥ द्विविधाश्च परानुग्रहाः–निमलसंविदोऽनिर्मल- संविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरण- मेवास्यानुग्रहकारित्वम्, इत्याह पं० १ क० पु० ज्ञेयज्ञानापपत्त्या इति पाठः । ५
३४ श्रीतन्त्रालोकः । तं ये पश्यन्ति ताद्रूप्य- क्रमेणामलसंविदः । तेऽपि तद्रूपिणस्ताव- त्येवास्यानुग्रहात्मता ॥४०॥ ये पूर्वाभ्यासादिना निर्मलसंविदः, तीव्रतीव्रश- क्तिपातभाजो वा, तं—समनन्तरोक्तस्वरूपं, ताद्रूप्यक्र- मेण पश्यन्ति 'निरुपायसमावेशभागयम्' इति ज्ञान- पूर्वं साक्षात्कुर्वन्ति, अतस्ते परदर्शनमात्रेणैव तत्सं- वित्संक्रमात् '......दीपाद्दीपमिवोदितम् ।' इति वक्ष्यमाणनीत्या निरुपायसमावेशभाक्त्वेन तत्सदृशा एव भवन्ति इति शेषः, एवंरूपं सिद्धादि- दर्शनं च निरुपायसमावेशे निमित्तम्, इति प्रागेव संवादितम् 'सिद्धानां योगिनीनां च दर्शनम्............ ।' इत्यादि, अत एव तावती दर्शनमात्ररूपैवास्य अनुग्रहात्मता, न तु वक्ष्यमाणोपायादिसव्यपेक्षा, इत्यर्थः ॥ ४० ॥
श्लोक ४१ ] द्वितीयमाह्निकम् । ३५ ननु सर्वत्र दीक्षायाः ‘.........मुक्तिश्च शिवदीक्षया ।’ इत्याद्युक्त्या मुक्तावुपायत्वमुक्तम्, इति कथमत्र दीक्षां विनापि दर्शनमात्रादेव तदवाप्तिरुक्ता ? इत्याशंक्याह एतत्तत्वपरिज्ञानं मुख्यं यागादि कथ्यते । दीक्षान्तं विभुना श्रीम- त्सिद्धयोगीश्वरीमते ॥४१॥ एतस्य समनन्तरोक्तस्य निरुपायात्मनस्तत्त्वस्य परिज्ञानमेव मुख्यया वृत्त्या ‘यागहोमादि’ श्रीसिद्ध- योगीश्वरीमतादौ - सर्वत्रैवागमे ‘विभुना’ कथ्यते इति संबन्धः, अत एव च बाह्यं यागादि गौणम् - इत्यर्थसिद्धम्, अन्यथा ह्यस्य मुख्यत्वमेव न स्यात्, यदभिप्रायेणैव चर्याक्रमेऽप्येतन्निषिद्धम्, यदुक्तम् ‘नास्य मण्डलकुण्डादि किंचिदप्युपयुज्यते । न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया ॥’ इति ॥ ४१ ॥ तदेव पठति पं० १४ क० पु० चर्यास्थण्डिलाद्यपि निषिद्धमिति पाठः ।
३६ श्रीतन्त्रालोकः । स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः । पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥४२॥ ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् । ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥४३॥ स्थण्डिलं - यागार्थं गृहीतो भूप्रदेशः, तूरं - पात्रादावुत्कीर्णं आकारविशेषः। ज्ञानस्य सर्वोत्कृष्टत्वे हेतुमाह ‘ज्ञानेन’ इति, ज्ञानेन हि योगिनामपीश्वरः स्यादित्यर्थः, अत एव तदुपोद्वलनार्थं महच्छब्देश्वर- शब्दयोरपि प्रयोगः ॥४२-४३॥ अनिर्मलसंविदः प्रति पुनरस्य सोपकरणमेव अनुग्रहकारित्वम्, इत्याह सोऽपि स्वातन्त्र्यधाम्ना चे- दप्यनिर्मलसंविदाम् ।
श्लोक ४६] द्वितीयमाह्निकम् । ३७ अनुग्रहं चिकीर्षुस्त- द्भाविनं विधिमाश्रयेत् ॥४४॥ स्वातन्त्र्यधाम्ना, न पुनः शास्त्रीययन्त्रणया - तत्त्रो- टनायाः समनन्तरमेवोक्तत्वात् ॥४४॥ भावी च विधिः कीदृक् ? इत्याह अनुग्राह्यानुसारेण विचित्रः स च कथ्यते । परापराद्युपायौघ- संकीर्णत्वविभेदतः ॥४५॥ 'परापर' इत्येकशेषः, तेन - परः शाम्भवः, अपरः आणवः, परापरः शाक्तः, संकीर्णत्वमुपायान्तर- साहित्यात् ॥४५॥ न केवलमस्य परानुग्रहार्थं भाविविध्याश्रयण- मुपयुक्तं, यावत्तदभिधायकं शास्त्राद्यपि, इत्याह तदर्थमेव चास्यापि परमेश्वररूपिणः । पं० ३ क० पु० यन्त्रणायाः तत्त्रोटनस्येति पाठः ।
३८ श्रीतन्त्रालोकः । तदभ्युपायशास्त्रादि- श्रवणाध्ययनादरः ॥४६॥ न केवलमारुरुक्षूणामेव शास्त्रमुपादेयं यावदस्या- पि, इति अपिशब्दार्थः, यदुक्तम् 'शंकाशून्योऽपि तत्त्वज्ञो मुमुक्षुप्रक्रियां प्रति । न त्यजेच्छास्त्रमर्यादामित्याज्ञा पारमेश्वरी ॥' इति ॥४६॥ नन्वेवमुपायमुखप्रेक्षित्वादस्य स्वातन्त्र्यहानिः स्यात्? इत्याशंक्याह नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना । नानिर्मलचितः पुंसो- ऽनुग्रहस्त्वनुपायकः ॥४७॥ नहि अस्य आरुरुक्षुवदात्मन्युपायापेक्षा येन स्वात- न्त्र्यखण्डना स्यात्, किं तु स्वात्मनि कृतकृत्यत्वा- त्परार्थमस्य तत्स्वीकारः, यतः परेषामनिर्मलचित्त्वा- दुपायमन्तरेण न अनुग्रहः सेत्स्यति, इति-भावि- विध्याश्रयणाद्यप्युक्तम् , यद्गीतं
श्लोक ४८] द्वितीयमाह्निकम्। ३६ 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥' इति ॥४७॥ न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति - निखिलस्य आह्नि- कार्थस्याविगीततां दर्शयितुमाह श्रीमदूर्भिमहाशास्त्रे सिद्धसंतानरूपके । इदमुक्तं तथा श्रीम- त्सोमानन्दादिदैशिकैः ॥४८॥ ऊर्मिमहाशास्त्र इति - श्रीमदूर्भिकौलसिद्धसंता- नरूपके, इत्यनेन पादोवह्यां पारम्पर्येऽप्यम्लानत्वं दर्शितम्, तत्र हि 'शून्यं न किंचित्तच्छून्यं त्वशून्यं शून्यता नहि। यत्किंचित्कथं तद्धि न किंचिच्छेत्तुमर्हति ॥' इति भगवत्या पृष्टो भगवान् 'आत्मा शून्य इह ज्ञेयः शिवधर्म्मैर्विनाकृतः । शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ॥' इत्याद्युपक्रम्य
४० श्रीतन्त्रालोकः । 'नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि । वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥ यद्भावि न तद्भावि यद्भावि न तदन्यथा । एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥ तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।' इत्यादिपर्यन्तं बहूक्तवान् । श्रीमत्सोमानन्दादिदैशि- कैः उक्तमिति - श्रीशिवदृष्ट्यादौ, यदुक्तं तत्र 'भावनाकरणाभ्यां किं शिवस्य सततोदितेः । इति । 'सकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥' इति च ॥४८॥ तदेव सर्वत्रावधातव्यमित्याह गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् । विलीने शंकाभ्रे हृदयगगनोल्लासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥४६॥ पं० १० क० पु० कारणमिति पाठः । पं० १३ क० पु० करणे नास्ति कृत्यं चेति पाठः । पं० १५ क० पु० तदेवमत्रापीति पाठः ।
श्लोक ४६] द्वितीयमाह्निकम्। ४१ गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः 'आत्मै- वेश्वरः सर्वज्ञः सर्वकर्ता च' इत्यादिकानां युक्तीनां प्रचयस्य या रचना-परपक्षबाधनस्वपक्षसाधनाधा- यिका शास्त्रपरिपाटी, तया उन्मार्जनं - बौद्धाज्ञानोत्पुं- सनं, तद्वशात् - बौद्धज्ञानोदयेन स्वपरामर्शदार्ढ्या- दित्यर्थः । शास्त्रं - प्रभुसंमितमद्वैतागमं प्रति समा- श्वासात्प्रत्ययादिति, व्यस्तात् - गुरुतः शास्त्रतः स्वतः तीव्रतीव्रशक्तिभाजां, यद्वा समुदितात्-समस्तात्कथि- तात् एतस्मात्त्रयादपि तीव्रमध्यादिशक्तिपातभाजां, शंकाविकल्प एवावारकत्वादभ्रं, तस्मिन्विलीने सति, हृदयं-विमर्श एव अनवच्छिन्नत्वाद्वगनं तत्रोच्चैर्भास- नशीलं-ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव ध्वान्तस्य स्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्म- कस्य अज्ञानस्य, जयिनः प्रभोः-विश्वात्मकत्वेन प्रभव- नशीलस्य परमात्मनः, चरणान् - चरेर्गत्यर्थत्वाद आण- वादीनि ज्ञानानि, यूयं-समनन्तरोद्दिष्टाः तीव्रतीव्रा- दिशक्तिपातभाजः, स्पृशत - यथोत्तरं स्वात्ममयतयैव पं० ७ ख० पु० शास्त्रात् स्वस्माद्यद्वा तीव्र इति पाठः। ६
४२ श्रीतन्त्रालोकः । भावयध्वमित्यर्थः, अत एव चास्य सूर्येणौपम्य- मुक्तं, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥४६॥ इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥५०॥ उपाय एवौपयिकमिति शिवम् ॥ तत्तद्ग्रन्थाधिगमो- पायशतान्वेषणप्रसक्तेन । अनुपायाह्निकमेतद्- व्याख्यातं जयरथेनाशु ॥ इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रका- शाख्यव्याख्योपेते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्नि- कम् ॥२॥ एतत्काश्मीरभूपालसंश्रितेन प्रकाशितम् । सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पितम् ॥ पं० ६ क० पु० स्वात्मतयेति पाठः । पं० ७ क० पु० जयरथेन चित्रम् इति, ग० पु० जयद्रथेन रचितमिदमिति पाठः ।
(इस पृष्ठ पर कोई पाठ्य सामग्री नहीं है / This is a blank page)
(रिक्त पृष्ठ)
PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY PK Abhinavagupta, Rājanaka 3931 The Tantraloka of A52T3 Abhinava Gupta v.1
This image is a blank book cover / endpaper and does not contain any text to transcribe.