तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 352, कुल 368 में से
संदर्भ में पढ़ें३० श्रीतन्त्रालोकः । इत्यादिनीत्या पूर्णसंविन्मयतयैवावभासते इत्यर्थः, यदुक्तम् 'यथा रुमायां पतिताः काष्ठपर्णोपलादयः । लवणत्वाय कल्पन्ते तथा भावाश्चिदात्मनि ॥' इति ॥३५॥ अत एवाह एतेषां सुखदुःखांश- शंकातंकविकल्पनाः । निर्विकल्पपरावेश- मात्रशेषत्वमागताः ॥३६॥ एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । न समय्यादिकाचार्य- पर्यन्तः कोऽपि विभ्रमः ॥३७॥ न केवलमेषामविकल्पकावेशमयत्वापत्तेः लौकिक्य एव कल्पनाः न किंचित्, यावदलौकिक्योऽपि, इत्याह 'एषामित्यादि' कल्पना-स्थानादिका ॥ ३६-३७॥ पं० ७ क० पु० सुखदुःखानां शङ्केति पाठः । पं० ९ क० पु० परामर्शमात्रेति पाठः । पं० १३ ग० पु० चर्यापर्यन्त इति पाठान्तरं चास्ति ।