तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 351, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ३५ ] द्वितीयमाह्निकम् । २६ सात्मवृत्तिमार्गे विश्रान्ताः - स्वरसावस्थानेनैव लब्ध- तत्सामरस्या इत्यर्थः, तदुक्तम्, 'यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् । केवलं चिद्विकासेन विकारनिकराञ्जहि ॥' इति । तथा 'आनन्दशक्तिविश्रान्तो योगी समरसो भवेत् ।' इति । तथा 'उपायो नापरः कश्चित्त्वसत्तावगमादृते । तामेवानुसरन्योगी स्वस्थो यः स सुखी भवेत् ॥' इति ॥३४॥ ततश्च किम् ? इत्याह तेषामिदं समाभाति सर्वतो भावमण्डलम् । पुरःस्थमेव संवित्ति- भैरवाग्निविलापितम् ॥३५॥ तेषाम् - अनुपायसमावेशशालिनां, देहाद्यपेक्षया पुरोऽवभासमानमपि इदं सर्वं भावमण्डलं 'मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । मदभिन्नमिदं च ................. ॥' पं० ४ क० पु० केनचिच्चिद्विकासेनेति पाठः । पं० ६ क० पु० योगी स परम इति पाठः ।