तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 350, कुल 368 में से
संदर्भ में पढ़ें२८ श्रीतन्त्रालोकः । अगोचरादिति भावप्रधानो निर्देशः, तेन वाचा- मगोचरत्वादकथ्यपदवीरूढमित्यर्थः । एतच्च सर्वमस- कृत्स्वेनैव व्याख्यातम्, इति न पुनरायस्तम् ॥३३॥ ये चातोऽवहितास्त एव परं कृतकृत्याः, इत्याह इति ये रूढसंवित्ति- परमार्थपवित्रिताः । अनुत्तरपथे रूढा- स्तेऽभ्युपायानियन्त्रिताः ॥ ३४ ॥ इति - उक्तेन गुरूपदेशादिना, रूढा - तदैकात्म्य- लाभादापादितप्ररोहा, या संवित्तिः, तस्या यः पर- मार्थः - सर्वसर्वात्मत्वेन स्फुरणं, तेन पवित्रिताः - भेद- विकारकालुष्यापनयनेन परमाद्वयपात्रतामापादिताः, अत एव ते व्यतिरिक्तेन बाह्येनाभ्यन्तरेण वाभ्युपायेन अनियन्त्रिताः - तन्निरपेक्षाः सन्तः, अनुत्तरपथे - पूर्णानन्दचमत्कारघनतया सर्वातिशायिनि चिद्विका- पं० १२ क० पु० विकारकारककालुष्यापनयेनेति पाठः । पं० १३ क० पु० तेनाभ्यतिरिक्तेनेति पाठः ।