तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 353, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ३८ ] द्वितीयमाह्निकम् । ३१ ननु यद्येवं तर्ह्यस्य शेषवृत्तिः कथं स्यात् ? इत्या- शंक्याह समस्तयन्त्रणातन्त्र- त्रोटनाटंकधर्मिणः । नानुग्रहात्परं किंचि- च्छेषवृत्तौ प्रयोजनम् ॥ ३८ ॥ समस्ताः – निखिलाः शास्त्रोक्ता यन्त्रणा – ‘इदं कार्यम् इदं न’ इत्यादयो नियमाः, ता एव तन्यमान- त्वात्तन्त्रं – पटाद्यारम्भकं तन्तुजालं, तस्य त्रोटनायां विच्छेदे, टंकधर्मिणः शस्त्रकल्पस्येत्यर्थः, यथा हि टंक- स्तन्त्रं छिनत्ति, तथायमपि अनुपायसमाविष्टः शास्त्रीया यन्त्रणाः – नहि आरूढस्यास्य ततः कश्चित्संकोच इति भावः, शास्त्रं हि आरुरुक्षूनुपदेश्यान्प्रत्येव निया- मकम्, इति समनन्तरमेवोक्तम्, अत एव चास्य स्वात्मनि कृतकृत्यत्वात्परानुग्रहार्थमेव वर्तनम् इत्याह पं० ८ ख० पु० तन्यमानत्वात्तन्त्रं पटादि, तत्र त्रोटना अवच्छेदस्तदर्थं, टंकवद्दि- दारणाधर्मिणः शस्त्रकल्पस्येत्येवंविधः पाठः ।