तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 362, कुल 368 में से
संदर्भ में पढ़ें४० श्रीतन्त्रालोकः । 'नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि । वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥ यद्भावि न तद्भावि यद्भावि न तदन्यथा । एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥ तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।' इत्यादिपर्यन्तं बहूक्तवान् । श्रीमत्सोमानन्दादिदैशि- कैः उक्तमिति - श्रीशिवदृष्ट्यादौ, यदुक्तं तत्र 'भावनाकरणाभ्यां किं शिवस्य सततोदितेः । इति । 'सकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् । एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥ ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥' इति च ॥४८॥ तदेव सर्वत्रावधातव्यमित्याह गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् । विलीने शंकाभ्रे हृदयगगनोल्लासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥४६॥ पं० १० क० पु० कारणमिति पाठः । पं० १३ क० पु० करणे नास्ति कृत्यं चेति पाठः । पं० १५ क० पु० तदेवमत्रापीति पाठः ।