तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 361, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ४८] द्वितीयमाह्निकम्। ३६ 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥' इति ॥४७॥ न चैतत्स्वोपज्ञमेवास्माभिरुक्तम्, अपि तु भगवता, पूर्वाचार्यैश्च सर्वत्रैवोक्तम्, इति - निखिलस्य आह्नि- कार्थस्याविगीततां दर्शयितुमाह श्रीमदूर्भिमहाशास्त्रे सिद्धसंतानरूपके । इदमुक्तं तथा श्रीम- त्सोमानन्दादिदैशिकैः ॥४८॥ ऊर्मिमहाशास्त्र इति - श्रीमदूर्भिकौलसिद्धसंता- नरूपके, इत्यनेन पादोवह्यां पारम्पर्येऽप्यम्लानत्वं दर्शितम्, तत्र हि 'शून्यं न किंचित्तच्छून्यं त्वशून्यं शून्यता नहि। यत्किंचित्कथं तद्धि न किंचिच्छेत्तुमर्हति ॥' इति भगवत्या पृष्टो भगवान् 'आत्मा शून्य इह ज्ञेयः शिवधर्म्मैर्विनाकृतः । शिवः शून्योऽधिगन्तव्यो विमलोऽमूर्तविग्रहः ॥' इत्याद्युपक्रम्य