तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 364, कुल 368 में से
संदर्भ में पढ़ें४२ श्रीतन्त्रालोकः । भावयध्वमित्यर्थः, अत एव चास्य सूर्येणौपम्य- मुक्तं, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥४६॥ इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥५०॥ उपाय एवौपयिकमिति शिवम् ॥ तत्तद्ग्रन्थाधिगमो- पायशतान्वेषणप्रसक्तेन । अनुपायाह्निकमेतद्- व्याख्यातं जयरथेनाशु ॥ इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रका- शाख्यव्याख्योपेते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्नि- कम् ॥२॥ एतत्काश्मीरभूपालसंश्रितेन प्रकाशितम् । सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पितम् ॥ पं० ६ क० पु० स्वात्मतयेति पाठः । पं० ७ क० पु० जयरथेन चित्रम् इति, ग० पु० जयद्रथेन रचितमिदमिति पाठः ।