तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 143, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ८९ ] प्रथमाह्निकम् । १३३ बुद्धिधर्माः, संज्ञाः- यादृच्छिका डित्थादयः, कर्माणि- व्यापाराः । अनेन च गत्यादिना चतुर्दशकेन सकल- विश्वस्वीकारः कृतः । यच्चैतद्गत्यादि एष रामः- सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः, अत एवोक्तं 'व्यापकोऽत्र शिवः परमकारणम्' इति, अत्र इति गत्याद्युपलक्षिते विश्वस्मिन्, शिवस्यैव हि अयमशेषविश्वात्मा स्फारः इति भावः । तदुक्तं 'विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः । यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥' इति ॥८७॥८८॥ कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति इत्याह कल्मषघ्नीगामनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥८६॥ पं० ६ क० पु० शिवस्यैव हृदयमशेषेति पाठः । पं० १५ क० पु० ध्यायते सकलं ध्येयमिति पाठः ।