तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 141, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ८६ ] प्रथमाह्निकम् । १३१ देश : अन्तर्व्योमरूप एकदेशस्तं गच्छति जानाति य : स : - तदेकतानतया तन्निष्ठः ईत यावत् । तदुक्तं 'मध्यनाडी मध्यसंस्थबिससूत्राभरूपया । ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥' इति । अत एवोक्तं रामस्थः इति '..................एकाकी न रमाम्यहम् ।' इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्या- त्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे 'सेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः । ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ॥' तत्रैवागूरणेन १ भगवत्या 'रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो । तस्याभ्यासः कथं नाम ब्रूहि सर्व महेश्वर ॥' १ आगूरणमाक्षेपः पं० ४ ख० पु० बिससूत्राभसूत्रयेति पाठः । पं० १४ क० पु० यत्रस्थः स च क इति पाठः ।