तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 140, कुल 368 में से
संदर्भ में पढ़ें१३० श्रीतन्त्रालोकः । इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षे- प्तुकामो ग्रन्थकारः स्वोक्त्या योजयति 'तस्य सर्वं प्रसिद्धयति' इति–तस्य ग्रामधर्मवृत्तेः प्राणापानग- तित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामर- स्यस्य सर्वं बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदम- यत्वेन सिद्धयति प्रथते इत्यर्थः । तदुक्तं 'शिवभावनयौषध्या बद्धे मनसि संसृते । काष्ठकुड्यादिषु क्षिप्ते रसवच्छ्लवहेमता ॥' इति ॥८४॥८५॥ अत आह ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥८६॥ ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोट- यित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनाडीं प्रविशेत् । स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या पं० ६ क० पु० प्रसिद्धयतीति पाठः ।