भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 14, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 14

४ श्रीतन्त्रालोकः । 'मम' आत्मनो 'हृदयं' जगदानन्दादिशब्दवाच्यं तथ्यं वस्तु, सम्यक् देहप्राणादिप्रमातृतासंस्कारन्य- क्कारपुरःसरसमावेशदशोल्लासेन दिक्कालाद्यक- लिततया 'स्फुरतात्' कालत्रयावच्छेदशून्यत्वेन विकसतात्-इत्यर्थः । तच्च कीदृक् ?-इत्युक्तं 'तदुभय' इति । 'तत्' आद्यार्धव्याख्यास्यमानं च तत् 'उभयं' तस्य 'यामलं' ' तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः ।' इति वक्ष्यमाणनीत्या शक्तिशक्तिमत्सामरस्यात्मा संघट्टः, ततः 'स्फुरितभावः' परानपेक्षत्वेन स्वत एवोल्लसितसत्ताको योऽसौ 'अत एव विसर्गोऽयमव्यक्तह-कलात्मकः ।' १ षण्णामानन्दभूमीनां य एकोऽनुसंधाता उदयास्तमयविहीनोऽन्तर्विश्रान्तिपर- मार्थरूपो जगदानन्दः । वक्ष्यति च ग्रन्थकार एव उत्तरत्र यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् । यदनाहतसंवित्तिपरमामृतबृंहितम् ॥ यत्रास्ति भावनादीनां न मुख्या कापि संगतिः । तदेतज्जगदानन्दमस्मभ्यं शंभुरुचिवान् ॥ इति । पं० ६ ग० पु० सामरस्यरूपः इति पाठः ।