भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 15, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 15

श्लो० १ ] प्रथमाह्निकम् । ५ इत्युक्त्या कुलाकुलोभयच्छटात्मकहकारार्धार्धरूपो ‘विसर्गो’ बहिरुल्लिलसिषास्वभावः स प्रकृतिर्यस्य तत्; अत एवाह ‘अनुत्तरामृतकुलम्’ इति । ‘अनुत्तरं’ कतिपयकालदार्ढ्यकार्यमृतान्तरवैलक्षण्यात् उत्कृष्टं च तत् ‘यत्रास्ति न भयं किंचिन्न जरा व्याधयोऽपि वा । न विघ्ना न च वै मृत्युर्न कालः कलयेच्च तम् ॥’ इत्यकालकलितत्वात् अविद्यमानं मृतं यत्र तत् ‘कुलं’ शरीरं यस्य तत् अमाख्यकलास्वरूपम्—इत्यर्थः । तदुक्तम् ‘कला सप्तदशी यासावमृताकाररूपिणी ।’ इति । किं च तदुभयम् ?—इत्याह ‘जननी जनकश्च’ इति । कीदृशी जननी ? ‘विमलकलाश्रया’ इति । विगता ‘मला’ अवच्छेदका यस्यास्तादृशी या ‘कला’ परविमर्शैकस्वभावकर्तृतालक्षणा, सा ‘आश्रय’ आल- म्बनं स्वरूपं यस्याः सा शुद्धस्वातन्त्र्यशक्ति- रूपा—इत्यर्थः । पं० १ क० पु० हकारार्धरूप इति पाठः । पं० २ क० पु० यत्र तत् इति पाठः ।