तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 174, कुल 368 में से
संदर्भ में पढ़ें१६४ श्रीतन्त्रालोकः । तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते । ये याजका बोधाद् वेदित्रेकस्वभावात् स्वात्म- रूपाद्व्यतिरिक्तमन्यत् तत्तन्नियताकारमिन्द्रादिदैवतं याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकार- वत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययो- गाद् गाढगाढं विमृशन्तः 'वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् । संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत्' ।। इत्यादिन्यायेन बोधाभेदेन — परप्रमात्रेकरूपस्वात्मम- यत्वेन अवबुध्यन्ते इत्यर्थः ॥ ननु देवतोद्देशेन द्रव्यत्यागो याग इत्युक्तेः द्रव्य- त्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति , कथमस्य याज्यत्वम् ? इत्याशङ्क्याह पं० १ क० ख० पु० तेऽपि बोधमिति पाठः । पं० ख० ४ अन्यत्तन्न नियताकारमिति पाठः । पं० ७ क० पु० मृशन्तोऽपि ते च इति पाठः । पं० ९ ख० पु० संवित्त्वदात्म चेदिति पाठः । पं० १० क० पु० प्रमात्रेकस्वात्मेति पाठः ।