तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 184, कुल 368 में से
संदर्भ में पढ़ें१७४ श्रीतन्त्रालोकः । विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा । इह खलु वेदवाक्यानि मन्त्रब्राह्मणरूपत्वेन द्विधा । ब्राह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन त्रिधा । तत्र विधिवाक्यानां तावत् संविदि व्यापारो नास्ति इत्युक्तप्रायम् । एवं मन्त्रादेरपि तत्र नास्ति व्यापारः । यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः क्रियाया धाम आश्रयः – तेन विना क्रियाया असंपत्तेः । न च संविदि वाच्यवाचकयाज्ययाजक- भावाद्यात्मकः कश्चिद्भेदः संभवति, एक एव आदि- सिद्धो बोधः इति सिद्धम् ॥ ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ? इत्याशङ्क्याह सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥ १३४ ॥ आवृतानावृतात्मा तु देवादिस्थावरान्तगः । पं० २ क० पु० धाम या इति, ख० पु० मन्त्रादिवृत्तिर्धाम वा इति पाठः । पं० ३ क० पु० ब्राह्मणत्वेनेति पाठः ।